पृष्ठम्:वास्तुविद्या.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥

वास्तुविद्या।

गजास्यमगजापुत्रं विघ्नाद्रिभिदुरं शिवम् ।
नमामि वचसां देवीं मन्दारकुसुमप्रभाम् ॥ १ ॥
प्रणम्य विश्वकर्माणं शिल्पिनां परमेश्वरम् ।
वास्तुविद्यां प्रवक्ष्यामि यथाशक्ति समासतः ॥ २ ॥
तत्रादौ सम्प्रवक्ष्यामि सर्वेषां मानसाधनम् ।
मानेनैवाखिलं लोके व[१]स्तु संसाध्य[२]ते यतः ॥ ३ ॥
परमाणुः क्रमाद् वृद्धो[३] मानाङ्गुल इ[४]ति स्मृतः[५]
परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः॥ ४ ॥
परमाणुभिरष्टाभि[६]स्त्रसरेणुरिति स्मृतः ।
त्र[७]सरेणुश्च रोमागं लिक्षायूकायवास्तथा ॥ ५ ॥
क्रमशोऽष्टगुणाः प्रोक्ता य[८]वोऽष्टगुणितोऽङ्गुलिः।
अङ्गु[९]लं तु भवेन्मानं वितस्तिदशाङ्गुलः ॥ ६ ॥


  1. १. 'वा' क. ख. छ. पाठः.
  2. २. 'ध' ग, घ, ङ, छ. पाठः.
  3. ३. 'च्या' क. पाठः.
  4. ४. 'मि' क. ख. ग. छ. पाठः,
  5. ५, 'तम् ।' क. ग. छ. पाठः.
  6. ६. 'भी रथरे' ख. ग. घ, ङ, च. छ. पाठः.
  7. ७. 'रथरे' ख, ग, घ, ङ. छ. पाठः,
  8. ८. 'वा' क, ख. ग. छ. पाठः,
  9. ९. 'लस्तु' घ, ङ, पाठः,