पृष्ठम्:वासन्तिकास्वप्नम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वासान्तिकस्वप्ने

त्वया प्रेषितवस्त्रादि ह्यल्पश्च बहु मन्यते ।

(राजानम्प्रति ।)

न कोऽप्यत्र मया निन्द्यो राजन् कुरु दयां मयि ।

यावदियं वराकी मकरन्दमुपयम्य मन्मतन्नानुवर्तते तावदस्मद्देशचरमनुसृत्य पित्राज्ञाऽतिवर्तिनोऽपत्यस्य यावन् दण्डो विहितस्तवन्तमेषऽनुभवत्वित्याज्ञां दत्त्वाऽहमनुग्राह्यपक्षे गणयितव्य इति प्रार्थये ।

राजा- (कौमुदीं प्रति ।) कथय वासु, किं वा युक्तं समयविरुद्धाचरणम् ।।

प्रायो जनयिता तन्वि कुमारीणां हि दैवतम् ।
बिम्बस्य तस्य यत्पुत्रयः प्रतिबिम्बपदं श्रिया ॥ १२ ॥

किञ्च । रमणीयोऽयं तरुणस्ते वरो मकरन्दः ।

कौमुदी– महीपते, तथैव वसन्तोऽपि ।

राजा - बाले, वसन्तः प्रियदर्शनोऽपि पितृपक्षपातोऽस्मिन्निति तव प्रेयान् मकरन्द एव ।

कौमुदी-- यदि मे जनको वीक्षते मदीक्षणेनैनं वसन्तं तदा बहुमानयिष्यति स एव मन्मनसम् ।

राजा- परं तद्विवेचनामाश्रित्य खलु वीक्षणीयं त्वया ।

कौमुदी – करुणानिधे क्षम्यत दासजनस्यायमपराध । न जाने केन वा कारणेन मे मनस्येतादृशनिर्णयो जातः । विस्मृतं च मया महानयमनयो यद्राज्ञः सन्निधावेवमचरितम् । तातनिदे-