पृष्ठम्:वासन्तिकास्वप्नम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोङ्कः ।


इन्दुशर्मा-

राजन्नियं मे दुहिता मदाज्ञा
मुलङ्घयेदित्यतिदुःखितोऽहम् ।।

(मकरन्दं तर्जन्या निर्दिश्य ।)

एतं वरं सम्मतमेव कन्य
सम्प्राप्य मे नन्दतु कौमुदीयम् ॥ ७ !

( ततो वसन्तं सक्रोधं दृष्ट्वा पुनरपि राजानं प्रति। )

महाराज, दीयतां दयार्द्रं चित्तम् । अयं यौवनमत्तः कलाभिमानी तैस्तैरुपायैरेनां बालां मे दुहितरं मोहयित्वा वशीकरोति तन्मनः । ( सरोषविस्मयं वसन्तं प्रति ।)

रे रे वसन्त,

अहो ! ते गानमाधुर्यमहो! ते वाक्यपद्धतिः ।
अहो ! वैदग्ध्यशालित्वं स्त्रीमनोहरणे तव ।। ८ ।।

यत

आकृष्टवानसि मम प्रियकन्यकाया
श्चेतः प्रमुग्धमधुना मृदुचाटुवाक्यैः ।
ज्योत्स्नाभिरामगृहजालमुपाश्रितोऽस्याः
कर्णाऽनुरागरसवर्षि करोषि गानम् ।। ९ ।।

तत्साम्प्रतम् ।।

तथा मुषितचित्ताऽभूत् कौमुदयं त्वया शठ ।
यथा न गणयत्येषा पितरं तद्वचोऽपि वा ।। १० ॥

</poem>