पृष्ठम्:वासन्तिकास्वप्नम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वासान्तिकस्वप्ने

अस्मदुद्वहमुद्दिश्य सोऽस्मि पर्युत्सुकः सखि ।
किं करोमि वरारोहे नाडिकाऽपि युगायते ।। ६ ॥

कनकलेखा-- वल्लभ , दिनचतुष्टयं तु प्रायो रात्रिचतुष्टयं भूत्वा क्षणमिव निद्रालुभिरस्माभिर्नीयमानमचिरेणैव दर्शनाने ष्यति यस्य निशयामावयोः परिणयमहोत्सवो भविष्यति । तत्किमिति दूयते महाराजेन ।

राजा-- रे प्रमोद, गच्छ सम्प्रति प्रतिरथ्यमस्मन्नगरस्य । तथा कुरुष्व यथा सर्वेऽपि युवन महोत्सवाभिनिविष्टचित्ताः परमा ह्लादभरिता वर्तेरन् । दुःखं विद्रावय वैवस्वतनगरमावर्जय सर्वतः प्रमोदम् ।

प्रमोदः- यथाज्ञापयति देवः । ( इति प्रणम्य निष्क्रान्तः )

राजा-- प्रणयवति कनकलेखे, जितवानस्मि त्वामसिधारया, तवाप्रियं कृत्वऽभवं प्रियस्तव। तस्मादद्य तादृशमप्रशस्तमार्गमुज्झित्वा महोत्सवप्रमोदप्रसाधनपूर्वं त्वां परिणेष्ये ।

( नेपथ्ये पदशब्द इव निपुणं निरूप्य ।)

किमयमागच्छन् वृद्धः कोपशोकाविष्ट इव दृश्यते ! तमनु द्वौ युवानौ काचिदिन्दुवदना च ।

( ततः प्रविशति इन्दुशम वसन्तः मकरन्दः कौमुदी च ।)

इन्दुशर्मा -- (हस्तमुद्यम्य ) विजयतास्माकमवनिपः ।

राजा– नमो भवत इन्दुशर्मन् , कथं कार्यातुर इव दृश्यते भवान् ।