पृष्ठम्:वासन्तिकास्वप्नम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
3
प्रथमोङ्कः ।

सूत्रधारपारिपार्श्वकौ – (सहर्षम् । )

माद्यत्कोकिलकान्तनिस्वनमिमं श्रुत्वा प्रहृष्यज्जगत्
झङ्कारैरलयोऽतिमोदमधुना सर्वत्र सन्तन्वते ।
सर्वेषां नवमालिकादिकुसुमैरम्यैर्मधुस्यन्दिभि
र्हृद्याः श्यामवनश्रियोऽमितमुदं संपादयन्त्यात्मनाम् ।'

पारिपार्श्वकः-– (पार्श्वतोऽवलोक्य सभयम् ।) कथमस्मगीतमाधुर्याक्रान्तहृदय इवाद्य समग्रसामन्तमौलिनिवेशितमणिकिरणराजिरञ्जितचरणयुगलः, प्रथमे वयसि वर्तमानोऽपि सुरासुरदुरवगाहमहाबिलमद्वितीय एवावगाह्य, भीम इव बकम् , सङ्कर्षण इव वृषम् , वृषासुरमुन्मथ्य, संकटात्पितरमुन्मोच्यनिजबलविजिताशेषदृप्तराजराजिस्सम्पदा राजराजमप्यतिक्रान्तो रूपविभ्रमा कृष्टाशेषलीलावतीशेखरमणिरवन्तीनाथ इन्द्रवर्मा देव्या सहेत । एवाभिवर्तते । तद्गच्छावः । ( इति निष्क्रान्तौ !) (प्रस्तावना ।) (ततः प्रविशति कनकलेखयाऽनुगम्यमानः सप्रमोदः सपरिवारो राजा इन्द्रवर्मा ।) राजा-

प्रिये कनकलेखेऽद्य कुहूर्नेयं दवीयसी ।
चतुर्भिर्दिवसैर्भाविन्यप्यहं दीनमानसः ॥ । ४ ।।
वसामि मदनाक्रान्तः शशाङ्कस्त्वतिनिर्घृणः ।
यतोऽसौ क्षीयमाणोऽपि सत्वरं क्षीयते न मे ॥,५ ।।