पृष्ठम्:वासन्तिकास्वप्नम्.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वासान्तकस्वप्ने

तानां विदुषां पुरतश्चिरादधिगतं नाट्यप्रयोगं हेमेव निकषेषु दर्शयितुमाहूताः स्मः ।

सूत्रधारः– स्थान एवात्र ते संमोदः । कथं पुनरपि किञ्चिच्चिन्तयन्निव दृश्यसे ।

पारिपार्श्वकः– अस्मदधिगतेषु परिषदाराधने श्लाध्यतमं प्रबन्धं

सूत्रधारः– अये किं विस्मृतं त्वया ! यदाङ्गलभौमदेशेऽवतार इव कविताया अस्मत्कालिदासादीनपि क्वचिदतिक्रान्तो निजय शोधवलीकृततद्देशजनः कश्चित् कविरद्यापि स्वग्रथितग्रन्धरत्नैर्जीवति किल । स एष षेक्स्पियर्नाम यः परान् दृप्तान् कवीन् स्वनाम्नैव कम्पयति ।

पारिपार्श्वकः– आं स्मृतं मया । परं तद्विरचितानि सर्वाण्यपि नाटकानि सममेकां तुलामारोहन्ति । तेषु कतमदद्य प्रस्तूयताम् ।

सूत्रधारः-- वासन्तिकस्वममेव युज्यते । कालोऽप्ययं वसन्तः । तत्किं सर्वेऽप्यस्मद्वर्ग्यास्तत्प्रयोगोद्युक्ता: ।

पारिपार्श्वकः-- वयं तत्र सज्जा हर्षवन्तश्च ।

सूत्रधारः -- यद्येवं किन्न गीयते ।

पारिपार्श्वकः-- किमधिकृत्य गास्यामः ।

सूत्रधारः-- रे मुग्ध ! वसन्तोऽद्य सर्वोत्कृष्टतया राजते ।

पारिपार्श्वकः- प्रत्युत्पन्नमतिरत एव भवान् सूत्रधारः ।