पृष्ठम्:वासन्तिकास्वप्नम्.djvu/४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥श्री॥

॥ वासन्तिकस्वप्नम् ॥



प्रथमोऽङ्कः ।

श्रीब्रह्माच्युतशङ्करादितनुभृत्त्रैगुण्यमाश्रित्य य-
द्यद्वेदैः परिमृग्यमाणमपि सत्तत्त्वेन नो बुध्यते ।
यस्येच्छापरिसृष्टमेतदखिलं ब्रह्माण्डमद्वैतिनां
स्वप्ने दृष्टमिवावभाति तदिदं ध्यानैकवेद्यं नुमः ॥ १ ॥

(नान्द्यन्ते सूत्रधारः)

 अलमलमनया वेदान्तजिज्ञासया ।

(सामाजिकानवलोक्य साञ्जलिबन्धम् ।)

सदसद्व्यक्तिपारीणानमितज्ञानसम्पदः ।
सहर्षभक्ति सभयं प्रणमामि सभासदः ॥ २ ॥

 (नेपथ्याभिमुखम् ।) मारिष ! किं विलम्ब्यते ।}}

पारिपाश्चैकः– (प्रविश्य) भाव, आश्चर्यानन्दसागरे किञ्चिन्मग्नः क्षणं स्तब्धोऽभवम् ।
सूत्रधारः- कुत एवम् ।
पारिपार्श्विकः– यद्वयं यत्र कुत्रचिद्वर्तमानाः क्षणादेवैतेषाममन्दान्दजनकमहिम्नां दिष्ट्याऽत्र काकतालीयत्वेन सङ्ग-