पृष्ठम्:वासन्तिकास्वप्नम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोङ्कः ।

शाननुरोधेन यन्महदनिष्टं भावि तन्मे निरूपयतु महाराजः ।

राजा- अयि भद्र, दर्शनीयं ते वपुः । अयातयामं वयः । सर्वजनमहनीया जातिः । अभंगुरा तारुण्यधोरणी । तत्सर्वमेकपद एव मा कृथा वृधा । यदि पितरं नानुवर्तसे तदा शरणं भवति मरणमथवा यावज्जीवं परिणयाकरणम् । उक्तञ्च नास्ति जीवितादभिमततरमिह जगति जन्तूनाम् '। रमणरहितत्वं हि रमणीनां त्वादृशीनां मरणादपि कष्टतरम् । तथात्वे सर्वतोऽपि दुःखम् । न केवलं तवाभिमतवल्लभानान्निशोकः । एतादृशकुलसमयाचरविरुद्धगामिन्या सुखं नाम कथं भवेत् तव पितुर्मातुर्वा । मर्मच्छेदी खल्वेष वृत्तान्तः सर्वबन्धूनाम् । परिहास्योऽयमन्येषाम् । तज्जातमामरणं किल हृदयशस्यं सर्वेषाम् । सैष ते मतिर्न कल्याणी, न कदाऽपि सुखावह । तदपरज्य वसन्तन्मकरन्दमेव प्रतिपद्यस्व ।

कौमुदी-- महाराज, यद्भावि तद्भवतु । वसन्तं विहाय नान्यं पश्येयम् । तदथ जीवितमपि त्यजेयम् । यावदायुः परिणयं विनापि वसेयम् । एष एव निश्चयोऽस्या मन्दभागिन्याः ।

राजा --

कालेनालोच्य वक्तव्यं बालेऽस्मिन् विषये त्वया ।
दर्शः कृतोऽवधिस्तस्मिन् ब्रूहि मे तव निर्णयम् ॥ १३ ॥

मकरन्दः- (सविषादानुनयं कौमुदीं प्रति)

सरले प्रसीद मा मां त्वद्रागाविष्टचेतसं मुञ्च ।