पृष्ठम्:वासन्तिकास्वप्नम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वासन्तिकस्वप्ने

सासूयं वसन्तं प्रति ।)

अन्याय्यस्तव रागस्तातनिदेशो हि बहुमान्यः ॥ १४ ।।

वसन्तः– (मकरन्दं प्रति ।) त्वं तावत्प्रियोऽस्याः पितुः । अहन्त्वस्या एव । अपि नामेहसे तस्योपयमन् ।

इन्दुशर्मा– (सभ्रूभङ्गम् ।) किमात्थ र जाल्म वसन्तहतक, सत्यमेव मत्प्रेमाधिक्यं " वहति मकरन्दः यद्यन्मदीयं तत्तदस्मै प्रेम्णा दातुं सज्ज एवाहम् । इयं तु मदीयैव नान्या । यप्रभुत्वममुष्यां मे वर्तते तत्सर्वमद्य दीयते मकरन्दाय ।

वसन्तः-- (राजानं प्रति ।)

विशिष्यते न मत्तोऽयं जातिरूपवयोधनैः ।
सोशील्येनापि भो राजन् स्त्रीमनोहरणेन वा ।। १५ ।।

महीपाल, वराीयानत्रानुराग एव कन्यकायाः । अन्यदप्यत्र द्रष्टव्यम् । सत्यमेव यथेयं कौमुदी मय्यनुरागिणी तथैवास्मिन्नपि प्रणयवती काचिदुत्पलाक्षी वर्तते । सैषा सौदामिनी नाम । तां खल्वेष मकरन्दः प्रथमं प्रणयेन वशीकृत्य साम्प्रतं कौमुदी मपि कामयते । नैषा सज्जनाचरिता सरणिः । किं बहुना ।

एनं विचिन्त्य मदनज्वरतापतप्ता
सौदामिनीह परिखिद्यति निर्दयोऽयम् ।
एनां प्रमोह्य पुनरप्युपयन्तुमन्यां
धूर्तोयमिच्छति वरं न हि तस्य वृत्तम् ।। १६ ।।