( सास्रम् । )
चक्षुः शून्यीभवति विपिने गाढसान्द्रान्धकारे
पादो मान्दीभवति नितरां कण्टकाविद्धमूलः ।
त्वत्संपर्कं प्रति मम मनश्चञ्चलं शङ्कया च ।
चिन्ताक्रान्ता तृणमिव जगज्जालमालोकयामि ।।२२।
वल्लभ, कुत इदमौदासीन्यम् । क्व गतस्ते मय्यप्रतिमः प्रणय. ।
कथमेवं विहायाशु कन्यकां भीषणे वने ।
अनाथामामिषीकृत्य शरारूणां त्वया गतम् ।। २३ ॥
वसन्तः-- ( सौदामिनीदत्तचक्षुरेव ।) कथं स तिठेद्यं प्रणयो वि द्रावयति ।
कौमुदी-- ( साश्चर्यम् ) को वा प्रणयो वसन्तं कौमुदीसन्निकर्षादपसारयति ।
वसन्तः-- सौदामीनमदृष्ट्वा क्षणमपि न जीवेयम् । का त्वं यदि दृश्यते सौदामिनीवदनचन्द्रमाः । को वा परित्यज्य रजतं रङ्गमपेक्षते । त्वयि द्वेष एव मामद्रावयत् ।
कौमुदी-- नैतद्युज्यते । यन्मन्यसे तन्न ब्रूषे ।
सौदामिनी-- ( सत्रेदोपालम्भम् )
हा हा कष्टमियञ्च में परिभवे बद्धोद्यमा दृश्यते
ज्ञातं सम्प्रति हा त्रयोऽपि मिलिता मिथ्योपहासाय मे ।
कौमुद्यन्यजनापकारिणि, भृशं भूत्वा कृतघ्ना मयि
ह्येताभ्यां सह मां कथं व्यथयसेि क्रूरापहासैरलम् ।