पृष्ठम्:वासन्तिकास्वप्नम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
तृतीयोऽङ्कः ।

एतत्सर्वमपि युवयोर्लीलाविनोदायैव कृतमित्यन्यादृशमेतत् ।

वसन्तः- किं वा न जानामि मकरन्द, ते प्रणयं कौमुद्याम् । सैव परिणेतव्या त्वया । यतस्त्वयैवोक्तं ‘तातनिदेशो हि बहुमान्य:’ इति । परित्यजामि कौमुदीं त्वत्कृते । त्वमपि विसृज । सौदामिनीम् ।

सौदामिनी
एतावताऽपि कालेन परिहासपरायणाः ।
न केऽपि व्यर्थवचनैरेवं कण्ठमशोषयन् ।। २० ।।

मकरन्दः– “ भूयाननुराग एव कन्यकाया ’ । तत्कौमुदीमेवोदुह्य सुखं निवसतु महाभागः । नेतः प्रभृति मनसाऽपि स्मरेयं कौमुदीम् । सौदामिनीविप्रलम्भकारीति ममाप्ययशो रूढम् । तत्परिमार्ष्टुमीहे । स्वनिलयं प्रतिनिवृत्तश्चिरप्रवासीव सद्य एव सौदामिनीं यथापूर्वमभजत मन्मनः ।

वसन्तः - ( सावज्ञम् ) भद्र, सूनृता न खल्वस्य वणी ।

मकरन्दः- ( सक्रोधम् ) नेक्षस्वेमाम्। त्वन्नयेनकौमुदीं कौमुदी- मेवोपगच्छ । सम्प्रति पश्य त्वामेवान्वेषयन्त्यागता वराकी ।

( ततः प्रविशति पटाक्षेपेण सम्भ्रान्ता कौमुदी ।)

कौमुदी

गाढध्वान्ता रजनिरधुना चाक्षुषीं कर्षतीयं
वृत्तिं शब्दग्रहणचतुरां श्रोत्रयोर्वर्द्धयन्ती ।
कर्णाभ्यां मे नतिशतमिदं यत्प्रसादद्वियुक्तं
जानामि त्वां मधुरमधुरैः कण्ठनादैरुदारैः ।। २१ ।।

V. 8