पृष्ठम्:वासन्तिकास्वप्नम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
वासान्तिकस्वप्ने


मकरन्दः-- ( प्रबुध्द्य ) सौदामिनीं दृष्ट्वा।

रतिर्वा लक्ष्मीर्वा त्रिदिवरमणी वेयमबला
विधात्रा सृष्टा वा युवनयनसम्मोहमनसा ।
अहो रामा रम्या मदनबुधजैत्रप्रहरणं
मया बाला दूना बहुविधमधिक्षेपवचनैः ॥ १७ ॥

( इत्युपसृत्य ) अयि सौदामिनि, क्षमस्व मेऽपराधम् । परित्यज्य माणिक्यं गैरिकपरिग्रहायासं विचिन्त्य वारं वारमधिकं लज्जे । समक्षं सौदामिन्याः केयं कौमुदी विवेचनाराहित्यादेव मया कौमुद्यनुसृता । भद्र, परिष्वजस्व माम् । नो चेन्न मृष्यति मां जीवितुं वसन्तबन्धुः ।

सौदामिनी-- हन्त ! घोरघोरमिदम् । यदात्मविनोदनायारब्धोऽयं परिहास इति जाने । यदि युवां मर्यादाभिज्ञौ नैवमप्रियमलीकमाचरिष्यथः । मां द्विष्टो युवां । अहमपि जाने । उभाभ्यामपि सम्भूय किं वा परिहसितव्यम् । आकारेण मानुषावपि गुणेनापि यदि मानुषौ विनीतां वनितां नैवमवमन्येयाथाम् । मद्विदितेऽपि युवयोर्मयि विरागे किममुना सत्यवचनेन शपथगिराऽलीकस्तुत्या च । तत्त्वतो युवां परस्परजिगीषिणौ कौमुद्यामनुरक्तौ । सांप्रतं सौदामिनीमुपहसितुमहमहमिकथाऽपि ।

परिहासवचोजालैरबलानयनद्वयात् ।
यदश्रुपातनं नाम कैषा पौरुषधोरणी ॥ १८ ॥
धीराः सच्चरिता लोके स्वापराधेन साधवः ।
नैवं कलुषयन्त्येव कन्यकानां क्षमाम्बुधिम् ।। १९ ।।