(प्रविश्य )
प्रमोहः- देव, सम्प्रत्यनयोश्चेष्टितं क्षणं पश्यावः ।
प्रदोषः-- विदूरे तिष्ठ । उच्चैर्भाषमाणयोरनयोः कण्ठरवेण । प्रबुद्धो भविष्यतेि मकरन्दः ।
प्रमोहः-- विचित्रोऽयं सन्दर्भः । अधुन। द्वावपि तरुणावेनां । सौदामिनीं कमयिष्येते ।
(इति सहर्ष नृत्यति ।)
( ततः प्रविशति वसन्तेनानुगम्यमाना सौदामिनी )
वसन्तः-- अयि सौदामिनि, सत्यमेव त्वमनुरक्तोऽहं मदनस्य त्रिलोकीविजयवैजयन्तिकाम् । कथमपहसेयं प्राणसमाम् । उपहासदयो न जात्वश्रुपुरस्सरमायान्ति । निरीक्षस्व मे वदनम् । कुरुष्व सदयं मानसम् । सकामो भवेयम् । हन्त ! निरनुक्रोशे कथमेवमपगतदाक्षिण्यमाचर्यते ।
सौदामिनी– (सरोषम् ) किमनेनासत्यशपथेन । नन्वहं सौदामिनी । जानताऽपि त्वया कथमेवमुपक्रान्तम् । यदि त्वद्वशगा । लावण्यमञ्जरी कौमुदी कथं वा दीनामेनामवलेपेनैवमुपहससि । किमहं न जाने कौमुदीमयप्राणस्त्वमिति । गच्छ खल, कौमुदीवल्लभ इत्येव त्वयि मे बहुमानः ।
वसन्तः-- विवेकशून्येन किलालुनीतपूर्वा कौमुदी ।
सौदामिनी— किं वा सहसेऽन्यं कौमुद्याः पाणिग्रहीतारम् ।
वसन्तः-- मकरन्दः खल्वधुना कौमुदीमनुरक्तस्तत्तेनैवोपयन्तव्या कौमुदी ।