पृष्ठम्:वासन्तिकास्वप्नम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
वासान्तिकस्वप्ने


श्रान्तोऽस्मि तामनुगतो मुहुरात्तकोपां
दौर्भाग्यभाजनमहं बहुधापि भग्नः ।
तत्सङ्गमाय किल धावति मानसं मे
सर्वङ्कषा भगबती भवितव्यतैव ।। १४ ॥ ।

( किञ्चिदन्तरं गत्वा भूतले निविश्य ) अत्रैव निद्रमनुभूय पुन- रपि कौमुदीमन्विष्यानुनीय परीक्षिष्ये भागधेयम् ।
( इति वामभुजमुपधाय शेते )

प्रदोषः-- [ सशकम् ]
प्रमोह त्वं प्रमुग्धोऽसि कथमेवं स्वकर्मणि ।
विरागिणं विमुच्यैव रागिणोऽक्ष्णो रसः कृतः ।। १५॥

प्रमोहः-- अलंघ्या नियतेराज्ञा। तस्मान्मुग्धं मया प्रभो,

प्रदोषः - सम्प्रत्यघरीकृतमातारिश्वा जवेन परिक्रम्य कृत्स्नमरण्यमनङ्गतापतप्तां सौदामिनीमिहानय । अहं चास्य मकरन्दस्य पक्ष्माण्यनेन सुमरसेन सिञ्चामि ।

प्रमोहः- अधुनैव सरामि जवेनातिक्रान्तराघवशरः ।

(इति निष्क्रान्तः )

प्रदोषः– (मकरन्दस्य पक्ष्माणि कुसुमरसेन सिक्त्वा ।) प्रभावेनास्य सौदामिनीं दृष्ट्वा मदनातुरो भव ।

(नेपथ्ये )


विद्याधराणामधिपस्य दूतः
सौदामिनीमानयतीह वेगात् ।
अन्वयमानां तरुणेन तेन
योऽसौ प्रमुग्धो मम तु प्रमादात् ।। १६ ॥