- जीवयैनमद्गार्तमालम्ब्य करुणां सखि ।
कौमुदी--- किमेतेन वल्लभस्य । हा । मकरन्द, देहि मे दयितम् ।
मकरन्दः-- यदि वसन्तो लोकान्तरं गतस्तन्मे हर्षायेत्यवेहि ।
कौमुदी-- (सक्रोधम् ) किमात्थ रे मूर्ख , किमेवमतिनिष्करुणोसि ? कथं वा व्यवसितं हन्तु महाभागम् । यद्यहमबला किं दैवमप्यबलम् । शङ्कितपूर्वमेव त्वयैव व्यापादनं वसन्तस्य । (सास्रम् ) मदुपयममपेक्ष्य किलोपयमं नीतो जगदलङ्कारमणि-र्दयितवसन्तः धिढ्यामेतादृशपापाचरणनिदानम् ।
श्मशानपूतनाकार दूरतो याहेि साम्प्रतम् ।
सनिद्रो वा विनिद्रो व प्रियो ब्रूहि यथा हतः ।। १२ ।।
मकरन्दः
सत्यं ब्रवीमि तव शोकनिरासहेतो-
र्जानीहेि कौमुदि मया न हतो वसन्तः ।
लोकान्तरं न च गतस्तव रागपात्रं
किं वा मुधा प्रलपसि प्रणयेन भद्रे ।। १३ ।।
कौमुदी-— वसन्तः स्वस्थो वर्तत इति वचनमाकाङ्क्षामि ।
मकरन्द- तथा चेत्को वा मे लाभः ।
कौमुदी यदितः परं कदाचिदपि मां न द्रक्ष्यसीति । अपस रामि ते जुगुप्सितात् सन्निकर्षात् । वसन्तः प्राणितु वा न वा ।। त्वं पुनरपि मां न पश्येः । [ इति निष्क्रान्ता ।
मकरन्दः-- ( सखेदस्मितम् )