पृष्ठम्:वासन्तिकास्वप्नम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
वासान्तिकस्वप्ने

रया । नय मामपि वसन्तनिकटम् । नृशंसतरं किल जीवितं यदद्यापि नोत्क्रमति । हा नाथ दयित वसन्त कौमुदीययजीवित, कुत्र गतेऽस्यविगणय्य मां त्वदेकशरणाम् । यद्यन्तर्हितो भावजिज्ञासया नायमवसरः परिहासस्य । हन्त ! किं करोमि । निखिलमपि बान्धवजनं तृण।य मत्वा धिक्कृत्य पितरौ विहाय लज्जामपहाय धृतिं निवार्य विनयमविगणय्य जनापवादमुल्लंघ्य राजशासनमुत्सृज्य समयाचरं परित्यज्य शीलमविचिन्त्य कुलं विसृज्य यशो रागोन्मादेन माता च पिता । च प्रियवल्लभो वसन्त एवेति दृढमाकलय्य त्वमेवानुगतामेवं विप्रलब्धुं नार्हसि । (किञ्चिद्विचिन्त्य ।) किमनेनारण्यरुदितेन । वेपते मे हृदयम् । सर्वतः कालरात्रिमिव पश्यामि । श्रुयते पिशाचानामतिभीषण: कोलाहल : । इतस्ततः पश्यीमि भ्राम्यमाणमलातपुञ्जम् । तत्सर्वधा हतास्मि मन्दभागिनी । नियतमेव मकरन्दहतकेन स्मर्तव्यां गतिं नीतो वसन्तः । अन्यथा कथ मेवं प्रलपन्तीं कौमुदीं नानुकम्पते ।

(इति मुर्छति ।)

मकरन्दः– (पठान्तेन बीजयति ।)

कौमुदी-- (संज्ञां लब्ध्वा ) रे महापातकिन् , पश्यामि त्वन्मुखे तादृशपापकर्मणश्चिह्नानि !

मकरन्दः -- (सप्रणयशोकम् )

त्वयैवाहं हतस्तन्वि, मृतवन्नष्टचेतनः ।
तथाऽपि शोभते, भद्रे, त्वन्मुखामलचन्द्रमाः ।। ११ ।।