पृष्ठम्:वासन्तिकास्वप्नम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
तृतीयोऽङ्कः ।

प्याश।मुत्पाद्य स्वीनकटे वासयित्वा वस्त्राभरणजातै: सन्तोष्यानवरतगानवर्षेणाह्वादयति । तदवलोक्य विस्मयस्य पराङ्कोटिमापन्नो देवसकाशमहमुपासरम् । इतः परं देव एव प्रमाणम् ।

प्रदोषः- अस्तां नामेदम् । अवन्तीयुवानं प्रति किं वा निर्वर्तितो मत्सन्देशः ।

प्रमोहः- महीपते, देवस्याज्ञां शिरसा बहन्वनमखिलमन्विष्य निद्रानिमीलितनयनं तं तरुणमुपलभ्य न्यषिञ्चं कुसुमरसं तल्लोचनयोः । सविधे तस्य सा तरुण्यप्यस्वाप्सीत् । तामेवासौ । द्रक्ष्यति स्वप्नावसाने ।

(ततः प्रविशति कौमुदी मकरन्दश्च ।)

प्रदोषः-- संप्रत्यन्तरितस्तिष्ठ । अयमेव स युवा मया निर्दिष्टः ।

प्रमोहः- ( सम्भ्रान्तः ) इयमेव सा तरुणी । परं न कदापि मया दृष्टचरोऽय तरुणः ।

मकरन्दः- अयि मानिनि, किमेवमधिक्षिपसि मां स्वप्रणयार्द्रार्द्रमानसम् ।

कौमुदी-- ( सविषादम् ) न केवलं त्वमधिक्षेपार्हः किं तु शापार्होऽपि । अस्मद्दयितवसन्तजीवितं प्रति त्वय्येवास्ति मे शङ्का । अरे दुरात्मन् मकरन्दापशद, यदि प्राणिति वसन्तस्तद। न कदपि मामनाथां शरारुभीषणे कान्तारे निदान्तीमर्धरात्रे मुक्त्वा गमिष्यति (अश्रूणि मुञ्चन्ती ।) हन्त ! कुटिलोऽयं कालः । एव मतिनृशंसः पापाग्रेसरस्त्वमिति स्वप्ने न विदितं मन्दभागिन्या मम । एष एवाधुना महोपकारस्त्वत्तः प्रार्थ्यते । तथैवासिधा-