पृष्ठम्:वासन्तिकास्वप्नम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
वासान्तिकस्वप्ने

निम्बवती-- यूयममुं महानुभावमस्मदुद्यानं नीत्वा सम्यक् स्नपयित्वा कुंकुमपटवासधूळिभिः परिलिप्य माधुर्योपपन्नानि नानाविधान्यास्वाद्यवस्तूनि च दत्वा भवतीभिरहं सत्वरं ज्ञापनीया ।

(इति सहाधरकेण सर्वाः निष्क्रान्ताः)

इति मिश्रविष्कम्भः ।
(ततः प्रविशति प्रदोषः ।)

प्रदोषः-- न जाने यदि प्रबुद्धा न वा निम्बवती । को वा जीवस्तस्या दृष्टिपथमवातरत् । (इति चिन्तयन् किञ्चिदन्तरं गत्वा पुरोवलोक्य) अहो ! अत्रैवाभिवर्तते मे नर्मसचिवः । सखे प्रमोह, कस्ते वृत्तान्तः !

(प्रविश्य । )

प्रमोहः-- महाराज, आश्चर्यमाश्चर्यम् । देवी निम्बवती कञ्चित् रासभमनुरक्ता । अवन्तीनगरात् कतिचन तन्तुवायप्रभृतयो नीचपुरुषा निद्रान्तीं देवीमजानानाः तच्छयनदेशं समया यदिन्द्रवर्मणः परिणयदिवसे प्रयोक्ष्यन्ते तत् प्रकरणं प्रथमं गूढ़ं नाटयितुमरेभिरे । तेष्वेकतमोऽश्मकेन्द्रवेषं धृत्वा किञ्चिन्नटित्वा यवनिकामिव निकुञ्जं प्रविष्टः । तदाऽहमपि तं सुभगम्मन्यमनुगत्य तच्छीर्षस्थाने गर्दभशिरः स्दापयेित्वा तं नृखरमकरवम् । तथाविदमेनं दृष्ट्वेतरे सर्वेऽपि नटा भयेन प्राद्रवन् । स तु तत्रैव निषद्यात्मविनोदनार्थं जगौ । अत्रान्तरे तद्भानाकर्णनेन प्रबोधिता निम्बवती प्रणयेन तमेव रासभं बहुधाऽनुनीय तस्या-