पृष्ठम्:वासन्तिकास्वप्नम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
तृतीयोऽङ्कः ।

तत्प्रसीदास्मै दासजनाय । संप्रति समाह्वयामि चेटीः । अह जयसने , विजये, भो धूमिनि, गोमिनि ।

( ततः प्रविशति जयसेना विजया गोमिनी धूमिनी च )

जयसेना--- स्वामिनि, सज्जाऽहम् ।

विजया---अहमपि ।

धूमिनी -- इयमस्मि ।

गोमिनी– अहं च ।

सर्वाः -- आज्ञापयतु देवी ।

निम्बवती– (अधरकं निर्दिश्य )

सेव्यऽयं नवपल्लवारुणकरो लावण्यपाथोनिधिः
सौशील्यादिगुणोज्वलो मम पुनःसज्जन्मभाग्योदयः।
मृद्वीकामृतभक्षणैरहरहः संवर्ध्यं तं श्रद्धया
गानालपमरन्दपानमुदितं कुर्वन्तु चेट्यो मम ॥ १० ।।

जयसेना। स्वागतमहो महानुभाव, मानवशार्दूल।

विजया - स्वागतम् !

धूमिनी- स्वागतम् ।

गोमिनी– स्वागतम् ।

अधरकः-- मुदिदे म्हि णेण कुशलप्पण्हेण । संवइ जिण्णाशू हगे होदीए णामहेअम् ।

मुदितोऽस्म्यनेन कुशलप्रश्नेन । संप्रति जिज्ञासुरहं भवत्यानामधेयम् ।

विजया - - देव, विजयाऽहम् ।
V. 7