पृष्ठम्:वासन्तिकास्वप्नम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
वासान्तिकस्वप्ने

निम्बवती- ( आकण्यं पुलकिताङ्गी ) उपसृत्य ।

अहो मानवशार्दूल गातुं त्वां प्रार्थये पुनः।
यथा ते गानमाधुर्याविष्टचित्ता भवाम्यहम् ।। ५ ।।
तथानवद्यं ते रूपं वक्ष्य नन्दन्ति मन्मनः ।
असंख्यास्त्वद्गुणा मन्ये प्रेरयन्त्यद्य मां त्वयि ।। ६ ।।

अधरकः— के उच्चइ । के हेऊ तुह मइ अण्णाळिशाणुळाआह ता इमादु वणा तुळिदं गन्दुं मइश्शं । चिन्देशु अप्पणो वावाळम् ।

किमुच्यते । को हेतुः तव मय्यन्यादृशानुरागस्य । तदस्माद्वनात् त्वरितं गन्तु यतिष्ये । चिन्तयस्वात्मनोव्यापारम् ।

निम्बवती-

स्थातव्यं मत्कृते कान्त, कान्तारेस्सिन्मनोहरे ।
अनुग्राह्या महाभाग, जीवातुर्हि भवान्मम ।। ७ ।
विद्याधर्यप्यहं नाथ त्वद्रागेणार्दिता भृशम् ।
यद्यत्र नेच्छसे स्थातुं तर्हि त्वां स्थापयाम्यहम् ॥ ८ ॥
दास्यामि रत्नाकररत्नजातं
दास्यश्च य मे तव दास्यहेतोः ।
करोमि ते पादसरोजसेवां
प्रसूनपर्यङ्कतलस्थितस्य ॥ ९ ॥