पृष्ठम्:वासन्तिकास्वप्नम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
द्वितीयोऽङ्कः ।

अधरकः— भित्तिणेप्पच्छधाळीण वित्थिदहस्थशाहे चिट्ठउ केवि ऴंगप्पएशम्मि । तदो ताह पाणिविडवळन्घेण संळवन्दु देवी देवे अ ।

भित्तिनैपथ्यधारी विस्तृतहस्तशाखास्तिष्ठतु कश्चिद्रङ्गप्रदेशे । ततस्तस्य पाणिविटपरन्ध्रेण सल्लपतां देवी देवश्च ।

धान्यकः-- तह जइ शव्वे शाहु । संवइ पत्थुज्जउ । अम्ह इन्दा, अहळा, क्कमेण णं णिउञ्जजवणिअं पविशन्दु |

तथा चेत्सर्वं साधु । संप्रति प्रस्तूयताम् । अश्मकेन्द्र, अधरक. भवानेव तावत्प्रथम : । वचनावसाने सर्वाण्यपि पात्राणि क्रमेणैनां निकुञ्जयवनिकां प्रविशन्तु ।
( ततः प्रविशत्यदृश्यमानः प्रमोहः ।)

प्रमोहः- ( पुरोऽवलोक्य सवितर्कम्) कथमेते वराकाः स्वपन्ती मस्मत्स्वामिनीं निम्बवतीमजनानास्तच्छयनदेशं निकषां नर्तितुमारब्धवन्तः । भवत्वत्रैव स्थित्वा सामाजिकीभवामि । सति समये नटोऽपि कदाचिद्भवेयम् । ( इति गूढं स्थितः । )

अधरकः- अह्नइन्दा, कहं तुहीं ठ्ठिज्जइ । भाणुमइ, सज्जा होहि ।
अश्मकेन्द्र, कथं तूष्णीं स्थीयते । भनुमति, सज्जा भव ।

धान्यकः-- भाणुमइ, (सचिन्तम् )
भानुमति ।
प्पशूणा आमगन्धाइ जह ळम्माइ भामिणि ।