पृष्ठम्:वासन्तिकास्वप्नम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
वासान्तिकस्वप्ने

अस्ति वा नाट्यप्रयोगरजन्यां चन्द्रिका ।

अधरकः– दीशदु अविलंब्वेण काळशूइआ ।
दृश्यतामविलम्बेन कालसूचिका ।

धान्यकः-- णिअदं वेअ ळअणिं तं अळङ्करेइ शशङ्के । नियतमेव रजनीन्तामलङ्करोति शशाङ्कः ।

अधरकः-- तह जइ जाळमग्गेण लङ्गभूमेिं ओदळिश्शन्दि शीदकिळणळम्ही ।
तथाचेज्जालमार्गेण रङ्गभूमिमवतरिष्यन्ति शीतकिरणर श्मयः ।

धान्यकः-- शlहु आदु कण्डएही आबद्धे दीअं धेत्तूण प्पविविअ शशङ्गाअमाणे वट्टउ के वि पुळिशे । विआळनिज्जे अण्णे एशे विशए । ऴंगभूमिम्मि का वि भित्ती आवशिअई । कुळिअळन्धेण इळ णअआ संळवन्दि ।

साधु, अथव कण्ठकैराबद्धो दीपं गृहीत्वा प्रविश्य शशाङ्कायमानो वर्ततां कश्चित्पुरुषः । विचार्योऽयमन्यो . विषयः। रङ्गभूमौ काचिद्भित्तिरावश्यकी । कुड्यरन्ध्रेण किल नायकौ सल्लपत: ।

राजसः-- बळे भित्ती कहं आणेअव्या । अहळआ, किणु उच्चये शळणे अम्हाण अज्ज तुह पळह वअ ।

अहो भितिः कथमानेतव्या । अधरक , किमुच्यते । शरणमस्माकमद्य ते प्रतिभैव ।