पृष्ठम्:वासन्तिकास्वप्नम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
वासान्तिकस्वप्ने

अस्मिन्भानुमत्यश्मकेन्द्रनाटके कतिचनप्रशस्तविषया दृश्यन्ते । प्रथमस्तावदश्मकेन्द्रेणात्मानं हन्तुमसिराकृष्टव्यः । तत्पश्यन्त्यो नार्यो भयेन रुदत्यऽपसरेयुः ।

राजसः -- शव्वह भए उप्पज्जेज्ज । सर्वधा भयमुत्पद्येत ।

साधकः-- ता वहं वच्चइत्तूण णडिश्शम्ह तद्वधं वर्जयित्वा नटिष्यामः।

अधरक: -- ण किं पि वच्चदव अभ्भेही । अथ एत्थ के वि उवए । क iषे पथावण विळिह । अम्हाण अशीही ण हिंशा जाएज्ज । अम्हइन्दोप्पच्छधी हके तत्तुवदो तन्दुवाए अहळए वेअ त्ति विळशिणीभीवाळणाह कडे फुडे अहिहिज्जउ तत्थ उउग्घाअम्मि न किञ्चिदपि वर्जयितव्यमस्माभिः । अस्त्यत्र कोऽप्युपायः काञ्चित् प्रस्तावनां विलिख । अस्माकमसिभिर्न हिंसा जायते । अश्मकेन्द्रनैपथ्यधार्यहं तत्वतस्तन्तुवायोऽधरक एवेति विलासिनीभीतिनिवारणाय स्पुटमभिधीयतां तस्मिन्नुपोद्धति ।

धान्यकः- शम्म शाहु उत्ते । सम्यगुक्तम् ।

राजसः-- ण किणो भाइज्ज़ा अवळाओ मइन्ददंशणे । न किं बिभीयुरबळा मृगेन्द्रदर्शने ?

साधकः--- शे वि जण्णे भीईठ्ठाणे ।