पृष्ठम्:वासन्तिकास्वप्नम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः ॥

(ततः प्रविशति धान्यकोऽधरकःधनकःवसुपालितःराजसः, साधकश्च ।)
अधरकः-- कहं अब्भवग्गिआ शब्वे वि एत्थ जेव्व । कथमस्मद्वर्ग्या: सर्वेडप्यत्रैव ।

धान्यकः- शम्म शम्म । एशे वेअ प्पएशे अम्हाण पुढमपओआह उइदेत्ति पळिहाइ । इमाओ शामाओ सरितडभुओ होदु रङ्गट्टळी । णिउञ्जे एशे अत्थु जवणिअन्तळे । अवणिवाह शण्णिहिव्मि विअ एत्थ वि णडिश्शम्ह ।

सम्यक्सम्यक् । एष एव प्रदेशोऽस्माकं प्रथमप्रयोगस्य चित इति प्रतिभाति । इमा: श्यामा: सरित्तटभुवो भवन्तु रङ्गस्थली । नेिकुञ्जोऽयमस्तु यवनिकान्तरम् । अवनिपस्य सन्निधाविवात्रापि नटिष्यामः।

अधरकः , अळे ळे धण्णआ । भो धान्यक ।

धान्यकः- वअशु वत्तव्यं अहळअ, सन्ददाळावीण, । वद वक्तव्यमधरक, सन्ततालापिन् ।

अधरकः~ इमश्शिं भाणुमईअम्हइन्दणाडए कइच्चिअ अप्यशत्थविशआ दीशन्दि । पुढमे दव अम्हइन्देण अप्पाणं हन्दुं अशी आअळिशिदध्वे । तं पुळोवन्तीओ णाळीओ भएण ऴोदमाणाओ ओशळेज्ज ।