पृष्ठम्:वासन्तिकास्वप्नम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
प्रथमोङ्कः ।

अनुरागवशंवदा हि नालं
तरुणी प्रेमवशीकृतं विहातुम् ।। २१ ।।

यथैव सन्ततचिन्तास्वप्ननिश्वासप्रत्याशाश्रूणि प्रणयाभिभूत मनस्कायः सहजानि तथैव तीव्रवेदना च ! किं करोमि मन्दभागधेया । ( इत्यश्रूणि मुञ्चति ।)

वसन्तः-- समाश्वसिहि । भद्र, समाश्वसिहि । शृणु मे वचनम् । एषैवात्र प्रतिपत्तिः । काचिन्मे पितृष्वसा मृतभर्तृका वर्तते । तस्या द्रविणमस्त भूरि । अनपत्य च सा । अवन्त्या- क्रोशद्वयमात्रमेव तस्याः सदनम् । पुत्रमिवाभिमन्यते मामेषा । तत्र भवत्वावयोः परिणयो गान्धर्वेण विधिना । नास्त्ययं कठोरः समयाचारस्तत्र । यदि ते सत्यमेव मय्यनुरागस्तर्हेि श्वो रात्रौ वञ्चितस्वजना पितृगृहाद्गृढं निर्गत्य नगरस्य नातिदूरे बाह्योद्याने यत्र कदाचिदद्राक्षम् त्वां सौदैमिन्या सह तत्र वकुलवीथ्यां त्वदगमनदत्तचक्षुष मया संगच्छस्व ।

कौमुदी - (हर्षमभिनीय ।)

सम्यग्विचिन्त्य मदनानलदाहशान्ति
सञ्जीवनौषधमिव प्रियवल्लभेन ।
मत्स्नेहपूर्णमनसा सदयेन मह्यं
दत्तं वचोऽमृतमिदं शिरसा धृतं मे ॥ २२ ॥

प्राणेश, शपे मदनस्य दृढतमेन धनुष, सुवर्णभासिनाऽसदृशेन सायकेन, अजातशात्रवभावैः कोकिलैः, युवजनानुरागसंवर्धिन्याऽप्रतिहतया शक्त्या, विरहिजनदाहकेन कामानलेन च ।