पृष्ठम्:वासन्तिकास्वप्नम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
वासान्तिकस्वप्ने

अयि प्रिये, न किं ते कर्णपथमागतं यज्जनकेन सञ्जयाय दत्तमात्मानमनुरागसाक्षिकमुदयनाय प्रयच्छन्त्या वासवदत्तयाऽन्वभाविमहान्क्लेश इति । तथैव सर्वत्राप्यनुरागानुगुणं वलभमक्लेशेनैवाप्नुवत्यो नार्यः प्रायो विरला एव । इह खलु दाम्पत्यं नाम क्वचिज्ज़ात्या भिद्यते-

कौमुदी— हन्त ! उत्तमनीचयोः परिणयो मामयं महानभाग्यपरिणाम: ।

वसन्तः --- उत क्वचिद्ववयसा वसंवदति -

कौमुदी— तरुण्या जरठभर्तुलाभ इति विधिविहितो महानयं दण्डपातः ।

वसन्तः– आहोस्विन्मित्रवर्गविनिर्दिष्टं भवति ।

कौमुदी~ यदन्यदीयचक्षुषा वरणं वल्लभस्येति नातःपरं कष्टतर मस्ति युवतीनाम् ।।

वसन्तः– यदि कदाचित्सर्वथाऽनवद्य दाम्पत्यं तत्तु आयोधनेन निधनेन व्याधिना व विहन्यमानं शब्दवत्क्षणभंगुरं प्रतिबिम्बवदनियतं स्वप्नवदनायातं कृष्णनिशानिशीथनिरूढान्धतमसपरिस्फुरच्चञ्चलाचञ्चलतरञ्च भवति । सुखं हि नाम क्षणभंगुरम् । कष्ट खङ लाकयात्रा ।

कौमुदी-- सर्वत्रानुरागः क्लेशपुरस्सर इति चेत् सहिष्णुभ्यामेवावाभ्यां प्रतीक्षणीयः कश्चित्कालः ।

विधिरेव विशेषगर्हणीयो
यदि रागः सफलो न चास्ति लोके ।