पृष्ठम्:वासन्तिकास्वप्नम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
वासान्तिकस्वप्ने

सत्यमेव भवता तस्यामेव बकुलवाटिकायां संगच्छेय ।

वसन्तः प्रिये, प्रतिश्रुतमप्रमत्तैव निर्वंहस्व । सम्प्रति पश्य सौदामिनीमितएवागच्छन्तीम् ।

(ततः प्रविशति सौदामिनी ।)

कौमुदी-- जयजय चिरमत्र रमणीये सौदामिनी, कुत्र गम्यते भवत्या ।

सौदामिनी- अयि परिहासशीले, किं मामुपहससि लावण्यवार्तया यदितेऽस्ति त्रैलोक्यसम्मोहनं सौन्दर्यं येनासौ मकरन्दो लोहधातुरिवायस्कान्तेनाकृष्टस्सन्ततं त्वामेव निद्धयायति । अहो हृद्या हि ते लावण्यमञ्जरी । त्वदपाङ्गभुजङ्गदष्टश्शश्वन्मुह्यति महाभागो मकरन्दः । त्द्वचनामृतास्वादनेन वीणावेणु निनादमपि नाद्रियते। वसन्तोदयवसरेषु पाककपिशकलममञ्जरी रमणीयनवनवमालिकाकुसुमसुरभिदक्षिणानिलवीज्यमानगृह।राम रसालकिसलयरसास्वाद मत्तकलकोकलमनोहररुतमपि न श्रृणोति । रन्ध्रान्वेषी कुसुमधन्वाप्यमुमेव समयमधिकृत्याधिकं दुनोति महानुभावम् । यदि त्वदुक्तं किञ्चिद्रामणीयकं मयि वर्तते तत्प्रतियच्छेयं तावकाय । मदलकस्ते चूर्णकुन्तलशोभामिच्छति । त्वदीक्षणप्रभां लिप्सेते मे लोचने । त्वद्वाणीविलासञ्जिघृक्षति मे रसना । किं बहुना प्रलपितेन । यदि भवामीश्वरी सर्वलोकानां मकरन्दवर्जं तत्सर्वमपेि त्वद्रामणीयकविलासविभ्रमेभ्यः प्रतियच्छेयम् । यदि सकरुणा त्वं प्रियसखीविषये तर्हि शिक्षय मां कथं त्वमीक्षसे । केनवोपायेन महानुभावमकरन्दमनोऽप्यावर्जितवती येनायमद्य शून्यवत् भ्राम्यति ।