पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( श्रीमद्वाल्मीकि रामायणम् । [ सुन्दरकाण्डम् ५ अकामां कामयानस्य शरीरमुपतप्यते ॥ इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥ ४२ ॥ एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ॥ ग्रहसन्मेघसंकाशो राक्षसः स न्यवर्तत ॥ ४३ ॥ प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम् ॥ ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ॥ ४४ ॥ देवगन्धर्वकन्याश्च नागकॅन्याश्च सर्वतः ॥ परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ॥ ४५ ॥ स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः ॥ विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् ॥ ४६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ त्रयोविंशः सर्गः ॥ २३ ॥ रावणचोदनया एकजटादिमीराक्षसीभिः पृथक्पृथक् सीतांप्रति रावणप्रशंसनपूर्वकंतद्भार्या भावस्वीकरणचोदना ॥ १ ॥ इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ॥ संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ॥ १ ॥ निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते || राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ २ ॥ ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः ॥ परं पॅरुषया वाचा वैदेहीमिदमब्रुवन् ॥ ३ ॥ पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः || दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ॥ ४ ॥ ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् || आमत्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ॥ ५ ॥ प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः ॥ मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥ ६ ॥ पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः || नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ ७ ॥ तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः | तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे ॥ ८ ॥ तती हरिजटा नाम राक्षसी वाक्यमब्रवीत् ॥ विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा ॥ ९ते ॥ येन देवास्त्रयस्त्रिंशद्देवराजश्र निर्जिताः ॥ तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ १९ ते ॥ ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्च्छिता || भर्त्सयन्ती तदा घोरमिदं वचनमब्रवीत् ॥ १॥ भाग्यं नास्तीत्यर्थः ।। ४१ – ४५ ॥ सर्गार्थी संग्रहेण | सुन्दरकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ दर्शयति- ते —स इति ॥ ४६ ॥ इति श्रीगोविन्दराजवि- प्रजापतीनामिति । “ मरीचिरत्र्यङ्गिरसौ रचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने पुलहः ऋतु: ” इति षट् प्रजापतयः । तेषां चतुर्थः ति० अमरश्रेष्ठाइन्द्रादयः । दैवहतेयमदृष्टहीनेत्यर्थः ॥ ४१ ॥ ति० समुत्क्षिप्तः अन्यतोपसारितः । प्रहसन् धान्यमा लिन्योचि- तव्यवहारदर्शनेनावशप्राप्त स्त्री प्रहारापकीर्तिपरिहारेणचप्रसन्नइत्यर्थः ॥ स० समुत्क्षिप्तः बलात्परिवर्तितः । अत एवप्रहसन् ॥ ४३ ॥ ति० प्रविशुः प्रविविशुः ॥ ४५ ॥ इतिद्वाविंशः सर्गः ॥ २२ ॥ ति० शत्रूनूरावयति हाहाशब्दकारयति सशत्रुरावणः ॥ १ ॥ ति० नबहुमन्यसे मोहादितिशेषः ॥ ४ ॥ ति० तसयपुत्रइत्य नेन कुलीनत्वंसूचितं ॥ ८ ॥ स० अष्टौवसवः | एकादशरुद्राः । द्वादशादित्याः । द्वावश्विनौ । आहत्यत्रयस्त्रिंशद्देवाः द्वादशा- [ पा० ] १ क. ङ. झ. ट. भास्करसंकाशं. २ ङ. – ज. ञ. कन्याश्चताः स्त्रियः. ग. ङ. झ. ट. कन्याश्चताखतः क. कन्यांचशोभनाः ख कन्याश्च सर्वशः ३ क. ग. च. छ. ज. न. ट. विविशुस्तागृहोत्तमं ङ. झ. प्रविशुस्तागृहोत्तमं. प्रतिपद्यवीर्यवान्. क. ज. ञ. प्रविवेशवीर्यवान् ङ. झ. ट. प्रविवेशरावणः ५ क. परुषंपरुषावाचो. ६ च. छ. ज. ततोहरिज टेत्यर्धस्यस्थाने. ततोहरिजटानाम राक्षसीकोधमूर्छिता | भर्त्समानातदाघोरमिदं वचनमब्रवीत् इत्यर्धद्वयं दृश्यते. पाठेषु