सर्गः २२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । चलाग्रमुकुटप्रांशुचित्रमाल्यानुलेपनः ॥ रक्तमाल्याम्बरधरस्तप्ताङ्गविभूषणः ॥ २५ ॥ श्रोणीसूत्रेण महता मेचकेन सुसंवृतः ॥ अमृतोत्पादनद्धेन भुजगेनेव मन्दरः ॥ २६ ॥ ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः || शुशुभेऽचलसंकाश: शृङ्गाभ्यामिव मन्दरः ॥ २७ ॥ तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ॥ रक्तपल्लॆवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ २८ ॥ स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान् || श्मशानचैत्यप्रतिमो भूषितोपि भयङ्करः ॥ २९ ॥ अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः || उवाच रावणः सीतां भुजङ्ग इव निश्वसन् ॥ ३० ॥ अनयेनाभिसंपन्नमर्थहीन मनुव्रते || नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा ॥ ३१ ॥ इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः || संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ॥ ३२ ॥ एकाक्षीमेककर्णी च कर्णप्रावरणां तथा ॥ गोकर्णी हस्तिकर्णी च लम्बकर्णीमकर्णिकाम् ॥ ३३ ॥ हस्तिपाद्यश्वपाद्यौ च गोपादी पादचूलिकाम् || एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥ ३४ ॥ अतिमात्र शिरोग्रीवामतिमात्रकुचोदरीम् || अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्वि काम् ॥ ३५ ॥ अनासिकां सिंहमुखीं गोमुखीं सुकरीमुखीम् ॥ यथा मद्वशगा सीता क्षिप्रं भवति जानकी || तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ॥ ३६॥ प्रतिलोमानुलोमैश्च सामदानादिभेदनैः || आवर्जयत वैदेहीं दण्डस्योद्यमनेन च ॥ ३७ ॥ इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ॥ काममन्युपरीतात्मा जानकी पंर्यतर्जयत् ॥ ३८ ॥ उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ॥ परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ॥ ३९ ॥ मया क्रीड महाराज सीतया किं तवानया || विवर्णया कृपणया मानुष्या राक्षसेश्वर ॥ ४० ॥ नूनमस्या महाराज न दिव्यान्भोगसत्तमान् || विदधात्यमर श्रेष्ठस्तव बाहुबलार्जितान् ॥ ४१ ॥ नीलेन । अमृतोत्पादनद्धेन अमृतोत्पादनार्थं नद्धेन | | मानवतीत्यर्थः ॥ ३२ – ३६ || प्रतिलोमानुलोमैः • ताभ्यां असिद्धाभ्याम् ॥ २४ – २७ || तरुणेत्यादि । प्रतिकूलानुकूलाचरणैः | सामदानादिभेद्नैः सामदा अलंकृतत्वे कल्पकसाम्यं । भयंकरत्वेपुनश्चैत्यसाम्यं । नमुख्यैर्भेदैः । प्रथमप्रयुक्तसामदानैरित्यर्थः । आवर्ज- • चैत्यं इमः ज्ञानवृक्षः । श्मशानमण्डपो वा । सीताया यत वशीकुरुत ॥ ३७-३८ ॥ धान्यमालिनी अत्यन्तंभार्यकरत्वज्ञापनाय रावणवर्णनं कृतं ॥ २८- रावणस्य कनिष्ठपत्नी । इदं मन्दोदर्या अप्युपलक्षणं । ३१ ॥ इत्युक्त्वेत्यादि ॥ प्रधानाप्रधानभूते द्वे उत्तरत्र वानरान्प्रति हनुमद्वचने तथा वक्ष्यमाणत्वात् एकाक्ष्यौ । अतो न पुनरुक्तिः । अथवा अक्षं ।। ३९-४० ।। अस्याः सीतायाः | अमरश्रेष्ठो ब्रह्मा । इन्द्रियं एकाक्षीं एकैकेन्द्रियां । श्रोत्रनासादावेक- दिव्यान् भोगान्न विधाति । अस्या दिव्यभोगे हारोशंक्य इत्यर्थः ॥ १५ ॥ ति० ताभ्यां प्रसिद्धपराक्रमाभ्यां | भुजद्वयमेवसर्वदा । युद्धादौस्खेच्छयादशभुजत्वमितिद्विवचनं ॥ वामदक्षेषु भुजत्व जात्यैकवचनमित्यन्ये ॥ २७ ॥ स० अनयेन स्त्रीवधतन्नासिकाछेदाद्यन्यायेन । अभिसंपन्नं युक्तं । अर्थहीनं निर्भाग्यं एतादृशं राममनुव्रतेसीतेत्वां नाशयामि । सन्ध्यां सन्ध्याकालिकंतमः ॥ ३१ ॥ स० पुनरेकाक्षीमित्युपादानं व्यक्तिभे- दीभिप्राये ॥ः । अथवा पूर्वमेकाक्षी मिति मैथिलीविशेषणं । एकस्मिामे अक्षिणीयस्यास्सा तामित्यर्थः । एकमक्षियस्यास्सेत्येकत्र । अपरत्रच एकस्मिन्भागेअक्षिणीयस्यास्सापि निर्नासिकाव्यंवधानमंक्षिद्वय मेकस्मिन्प्रदेशेवर्तत इति नैकाक्षी मितिपुनरुक्तं ॥ ३४ ॥ ति० प्रतिगर्जत प्रत्यगर्जत् ॥ ३८ ॥ उपगम्य समीपमागम्य । ततः अतिसंतर्जनंदृष्ट्वासीतायांदययेतिशेषः ॥ स० परिष्वज्य सीताता निवारणार्थ मालिङ्ग्य ॥ ३९ ॥ शि० अमरश्रेष्ठाइति । अस्याराज्यभोगोब्रह्मणान लिखितइत्यर्थः । आदराद्वहुवचनं ॥ " [ 10 ]१ च. ज. विराजितः २ क. ङ. – ट. अमृतोत्पादनेनो ३ क. –च. ज. —ट. भुजङ्गेनेव. ४ क. च. छ. ज. गॅ. द्वाभ्यां. घ. सताभ्यां परिपीनाभ्यां ५ ख फुल्लपल्लव ६ ङ. झ. संददर्श ७ क. घ. ङ. च. ज. -ट. जिह्वानखामपि. ४३. झ. ट. समेत्यवा. ९ क. ग. ~~ज, आवर्तयत. १० ङ. झ ञ ट प्रतिगर्जत. ११ क. - . देवाभोगसत्तमान् । विषा त्यमरश्रेष्ठाः ro ९१
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९५
दिखावट