पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १ ]
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

सर्वथा कृतकार्योहमेष्यामि सह सीतया ॥ आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥ ४६ ॥
[१]एवमुक्त्वा तु हनुमा[२]न्वानरान्वानरोत्तमः ॥ उत्पपाताथ वेगेन वेगवानविचारयन् ॥
सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ ४७ ॥
समुत्पतति [३]तस्मिंस्तु वेगात्ते नगरोहिणः ॥ संहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततः ॥ ४८ ॥
स मत्तको[४]यष्टिभकान्पादापान्पुष्पशालिनः ॥ उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥ ४९ ॥
[५]ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ॥ प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ ५० ॥
[६]तमूरुवेगोन्मथिताः सालाश्चान्ये [७]नगोत्तमाः ॥ अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ५१ ॥
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ॥ हनुमान्पर्वताकारो बभूवाद्भुतदर्शनः ॥ ५२ ॥
सारवन्तोथ ये वृक्षा न्यमज्जँल्लवणाम्भसि ॥ भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ ५३ ॥
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ॥ शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥ ५४ ॥
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ॥[८]अवशीर्यन्त सलिले निवृत्ताः [९]सुहृदो यथा ॥ ५५ ॥
लघुत्वेनोपपन्नं [१०]तद्विचित्रं सागरेऽपतत् ॥ द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ ५६ ॥
ताराचितमिवाकाशं प्रबभौ स महार्णवः ॥ ५७ ॥
[११]पुष्पौघेणानुबद्धेन [१२]नानावर्णेन वानरः ॥ बभौ मेघ [१३]इवाकाशे विद्युद्गभणविभूषितः ॥ ५८ ॥
तस्य वेग[१४]समाधूतैः पुष्पैस्तोयमदृश्यत ॥ [१५]ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥ ५९ ॥
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ॥ पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ ६० ॥


आनयिष्यामि आनेष्यामि ॥ ४५-४७ ॥ तस्मिन् हनुमति । वेगात्समुत्पततिसति नगरोहिणः शैलरुहावृक्षाः । विटपान् संहृत्य आदाय समुत्पेतुरित्यर्थः ॥ ४८ ॥ संग्रहेणोक्तं विवृणोति---स मत्तेत्यादिना ॥ कोयष्टिभकः कोयष्टिः ॥ ४९-५० ॥ तमूरुवेगेति पाठः । उरुवेगेन उन्मथिताः सालाः सालवृक्षाः । अन्ये नगोत्तमाः अन्ये वृक्षश्रेष्ठाः । सैन्याः सेनाय समवेताः पुरुषाः । "सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते" इत्यमरः ॥ ५१-५२ ॥ सारवन्त:

स्थिरांशवन्त । "सारो बले स्थिरांशे च" इत्यमरः ॥ ५३ ॥ मेघसंकाशः स कपिरित्यन्वयः । खद्योतैः रात्राविति शेषः ॥ ५४ ॥ अवशीर्यन्त अवाशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । स्थितवन्त इत्यर्थः । निवृत्ताः बन्धूननुगम्य निवृत्ताः सुहृत्पक्षे सलिल इति सामीप्येसप्तमी । "ओदकान्तात्स्निग्धो बन्धुमनुव्रजेत्" इत्युक्तेः ॥ ५५ ॥ लघुत्वेनोपपन्नं लघुत्वेन युक्तं ॥ ५६ ॥ तारेत्यर्धमेकं वाक्यं ॥ ५७ ॥ अनुब-


हतत्वामोघत्वादिकंसूचितवान् ॥४३॥ ति० मत्ताःकोयष्टिभाःयेषुतान् । स० यद्वा कोयष्टिभिः भा शोभायस्यतत्कोयष्टिभं । तच्चतत्कं शिरःप्रदेशश्च । तेनसहितान् ॥ ४९ ॥ रामानु० तस्यवेगेनविमुक्ताःदूरगमनहेतुभूतवेगेनहेतुनाविमुक्ताःगतसंबन्धाः अवशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । पुष्पाणिमुक्त्वासलिले अवशीर्यन्तेत्यनेनप्रस्थितेभ्यःसुहृद्भ्योनिवृत्तानामश्रुमोक्षणपूर्वकंशोकसागरेनिमग्नानांसुहृदांसमाधिर्ध्वन्यते ॥ ५५ ॥ रामानु० हनुमन्तमनुद्रुता:सारवन्तोवृक्षा:प्रथमंसागरेपतिताः अल्पसाराःततोप्यधिकंगत्वाजलेविशीर्णा इत्युक्त्वापुष्पाण्यप्यतिलघुत्ववत्तयामहद्दूरंगत्वापतितानीत्याह---लघुत्वेनेति ॥ ५६ ॥ ति० सर्ववर्णानां विद्युत्सुसत्त्वान्नानावर्णपुष्पोद्यानबद्धस्यसविद्युद्गणमेघोपमा ॥ ५८ ॥ रामानु० बाह्वोःपञ्चशाखत्वात्पञ्चास्यपन्नगदृष्टान्तः

  1. क. इत्येवमुक्त्वा.
  2. ख. वानरान्वानरर्षभः, झ. वानरोवानरोत्तमः.
  3. ङ.-ट. वेगात्तु ख. वेगेन. क. वेगात्तुतास्मिंस्ते.
  4. ठ. कोयष्टिमकान्.
  5. ङ -ट. ऊरुवेगोत्थिताः.
  6. क. तदूरु.
  7. क. नगादयः.
  8. ख. ङ.-ट, व्यवशीर्यन्त,
  9. घ. च. छ. ज. बान्धवायथा.
  10. क. तन्निवृत्तं.
  11. ङ--- ट, पुष्पौघेणसुगन्धेन.
  12. ख. नानागन्धेन.
  13. क. घ.---ट. इवोद्यन्वै.
  14. ख. ङ -ट. समुद्भूतैः.
  15. ङ. झ. ट. ताराभिरिवरामाभिः