पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम्

हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ॥ विस्मितास्सस्मितास्तस्थुराकाशे रमणैस्सह ॥ ३० ॥
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ॥ [१]सहितास्तस्थुराकाशे वीक्षां[२]चक्रुश्च पर्वतम् ॥ ३१ ॥
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् ॥ चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥ ३२ ॥
एष पर्वतसंकाशो हनुमान्मारुतात्मजः ॥ [३]तितीर्षति महावेगस्समुद्रं [४]मकरालयम् ॥ ३३ ॥
रामार्थे वानरार्थे च चिकीर्षन्कर्म दुष्करम् ॥ समुद्रस्य परं पारं दुष्प्रापं [५]प्राप्नुमिच्छति ॥ ३४ ॥
इति [६]विद्याधराः श्रुत्वा वचस्तेषां [७]महात्मनाम् ॥ तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ ३५ ॥
दुधुवे च स रोमाणि चकम्पे [८]चाचलोपमः ॥ [९]ननाद सुमहानादं सुमहानिव तोयदः ॥ ३६ ॥
[१०]आनुपूर्व्येण [११]वृत्तं च लाङ्गूलं [१२]रोमभिश्चितम् ॥ उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम् ॥ ३७ ॥
तस्य लाङ्गूलमाविद्ध[१३]मात्तवेगस्य पृष्ठतः ॥ ददृशे गरुडेनेव [१४]ह्रियमाणो महोरगः ॥ ३८ ॥
बाहू संस्तम्भयामास महापरिघसन्निभौ ॥ [१५]ससाद च कपिः कट्यां चरणौ संचुकोच च ॥ ३९ ॥
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ॥ तेजस्सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ ४० ॥
मार्गमालोकयन्दूरादूर्ध्वे प्रणिहितेक्षणः ॥ रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ४१ ॥
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ॥ निकुञ्य कर्णौ हनुमानुत्पतिष्यन्महाबलः ॥
वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ ४२ ॥
यथा राघवनिर्मुक्तश्शरश्वसनविक्रमः ॥ गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ ४३ ॥
न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ॥ अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥ ४४ ॥
यदि वा त्रिदिवे सीतां न [१६]द्रक्ष्याम्यकृतश्रमः ॥ बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ ४५ ॥


पारिहार्ये वलयं । तस्थुः तस्थुश्च ॥ ३० ॥ दर्शयन्तः प्रयोजयन्तः । महाविद्यां अणिमाद्यष्टमहासिद्धिं । विद्याधरमहर्षयः विद्याधराः महर्षय इवेत्युपमितसमासः । "उपमितंव्याघ्रादिभिःसामान्याप्रयोगे" इत्यनुशासनात् । विद्याधरश्रेष्ठा इत्यर्थः । विद्याधरा महर्षयश्चेति द्वन्द्वसमासो न युक्तः । इति विद्याधराः श्रुत्वेस्युपरितनश्लोके विद्याधराणामेवोपादानात् ॥ ३१ ॥ सा पुनरत्राकाशस्थितिः । शुश्रुवुः विद्याधरा इति शेषः । इति विद्याधराः श्रुत्वेत्युपसंहारात् ॥ ३२-३३ ॥

समुद्रं तितीर्षतीत्युक्तं तस्य प्रयोजनकथनायोक्तमनुवदति---रामार्थमिति ॥ ३४-३६ ॥ आनुपूर्व्येण वृत्तं क्रमेण वृत्तं ॥ ३७-३८ ॥ लङ्घनोद्योगकालिकावस्थां वर्णयति बाहू इत्यादिना । बाहू संस्तम्भयामास निश्चलीचकार । कट्यां ससाद शरीरं संचुकोचेत्यर्थः । चरणौ संचुकोच च ॥ ३९ ॥ संहृत्य संकोच्य ॥ ४० ॥ प्राणान् उच्छ्वासरूपान् । प्राणनिरोधो व्योमोत्पतनार्थे ॥ ४१-४३ ॥ हेिशब्दःपादपूरणे ॥ ४४ ॥ अकृतश्रमः अप्राप्तश्रमः । राक्षसराजानमित्यत्र टजभावआर्षः ।


धूमराजिरिवेतिह्रस्वपाठः ॥ १६ ॥ ति० पारिहार्यशब्दः श्रेष्ठवाचीति । एतदग्रे 'दर्शयन्तइत्यादि विमलेंबरे' इत्यन्तंश्लोकद्वयंप्रक्षिप्तक्वचिदितिचकतकः ॥ ३० ॥ शि० महाविद्यांमहाविद्याजनितां निरवलंबनस्थितिरूपांस्वशक्तिदर्शयन्तः । स० महाविद्याःअणिमाद्याः ॥ ३१ ॥ रामानु० महावेगमितिक्रियाविशेषणं ॥ ३३ ॥ स० परंपारं स्वगमनोद्दिष्टं ॥ ३४ ॥ रामानु० वीर्यवान्वीर्यमाविवेशेत्यभिधानात् पूर्वेविद्यमानमेववीर्येविशेषतोऽधिष्ठितवानित्यवगम्यते । तेजस्सत्त्वयोरप्येवंद्रष्टव्यं । तेजः पराभिभवनसामर्थ्ये । सत्त्वं बलं । वीर्ये आकाशाद्यभिनिष्क्रमणसामर्थ्ये ॥४०॥ रामानु० राघवशरदृष्टान्तेनस्वस्याविलंबितत्वाप्रति-

  1. ख. सस्मितास्तस्थुः. ज. सभार्यास्तस्थुः. क. विस्मितास्तस्थुः
  2. च. छ. ज. वीक्षमाणाश्च
  3. च, छ, तितीर्षुस्समहावेगं. ज. तितीर्षुस्सुमहावेगं
  4. ङ. झ. ञ. ट. वरुणालयं
  5. क. द्रष्टुमिच्छति
  6. ङ. झ. ञ. ट. विद्याधरावाचः श्रुत्वातेषां
  7. क. ङ.---ट, तपस्विनां
  8. ङ. झ. ट. चानलोपमः
  9. ङ. झ. ञ. ट. ननादच
  10. ड.-ट. आनुपूर्व्याच
  11. ङ, झ. ञ. ट. वृत्तंतल्लाङ्गूलं
  12. क. ङ. च. छ. झ. ञ. ट. लोमभिश्चितं
  13. क. ख. ङ-- ञ. मतिवेगस्य
  14. ख ह्रियमाणइवोरगः. क. च. छ. ज. ह्रियमाणोयथोरगः
  15. ङ, छ. झ. ट. आससाद
  16. क. ख. ङ.---ट. द्रक्ष्यामिकृतश्रमः