पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम्

स चचालाचल[१]श्चापि मुहूर्ते कपिपीडितः ॥ तरूणां पुष्पिताग्राणां सर्वे पुष्पमशातयत् ॥ १२ ॥
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ॥ सर्वतः [२]संवृतश्शैलो बभौ पुष्पमयो यथा ॥ १३ ॥
तेन चोत्तमवीर्येण पीड्यमानस्स पर्वतः ॥ [३]सलिलं संप्रसुस्राव [४]मदं मत्त इव द्विपः ॥ १४ ॥
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ॥ रीतीर्निर्वतयामास काञ्च​नाञ्जनराजतीः ॥ १५ ॥
मुमोच च शिलाश्शैलो विशालास्समनश्शिलाः ॥ मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥ १६ ॥
गिरिणा[५] पीड्यमानेन पीड्यमानानि [६]सर्वतः ॥ गुहाविष्टानि [७]भूतानि विनेदुर्विकृतैस्स्वरैः ॥ १७ ॥
[८]महासत्त्वसन्नादश्शैलपीडानिमित्तजः ॥ पृथिवीं पूरयामास दिश[९]श्चोपवनानि च ॥ १८ ॥
शिरोभिः [१०]पृथुभिस्सर्पा व्यक्तस्वस्तिकलक्षणैः ॥ वमन्तः पावकं घोरं ददंशुर्दशनैश्शिलाः ॥ १९ ॥
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ॥ जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥ २० ॥
यानि चौषधजालानि तस्मिञ्जातानि पर्वते ॥ विषघ्नान्यपि नागानां न शेकुश्शमितुं विषम् ॥ २१ ॥
[[११]अपरे तु महाकाया वमन्तोऽग्निं स्वतेजसा ॥ कन्दरेभ्यो विनिष्पेतुः कपिपादनिपीडिताः ॥ २२ ॥
गिरेराक्रममाणस्य तरवस्तरुणाङ्कुराः ॥ मुमुचुः पुष्पवर्षाणि व्यक्तमुत्पलगन्धिनः ॥ २३ ॥
गैरिकाञ्जनसंजुष्टा हरितालसमावृताः ॥ व्यदीर्यन्त गिरेस्तस्य शिलास्ताः समनश्शिलाः ॥ २४ ॥
सचन्दनारुणस्ताम्रश्चित्रः काननधातुभिः ॥ क्षिप्तः शिखिनिभैर्दीपैर्दीप्तगैरिकधातुभिः] ॥ २५ ॥
भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ॥ २६ ॥
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैस्सह ॥ पानभूमिगतं हित्वा हैममा[१२]सवभाजनम् ॥
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ २७ ॥
लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च ॥ आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥ २८ ॥
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ॥ रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ २९ ॥


भ्यामित्युक्तिर्वानरस्य चतुर्भिः संचारात् ॥ ११ ॥ चापीत्येकमव्ययमप्यर्थकं । अशातयत् अगच्छत् । स्वार्थे णिच् ॥ १२-१४ ॥ रीतीः रेखाः । काञ्चनाञ्जनरजतगर्भासु शिलासु विदीर्यमाणासु दृश्यमानास्तास्ता भेदधारा इत्यर्थः ॥ १५ ॥ समनश्शिलाः धातुविशेषसहिताः । मध्यमेनार्चिषा मध्यमया ज्वालया । पार्श्वज्वाला हि न धूमनिवर्तिका ॥ १६ ॥ विकृतैः विकृतिमद्भिः दैन्यव्यञ्जकैरित्यर्थः ॥ १७ ॥ सत्त्वसन्नादः भूतसन्नादः ॥ १८ ॥ स्वस्तिकंनाम फणोपरि दृश्यमानार्धचन्द्रकं । ददंशुरिति दंशनं

कोपव्यापारः ॥ १९ ॥ बिभिदुः भिन्नाः ॥ २० ॥ यानीति अत्र तानीत्यध्याहार्ये । शमितुं शमयितुं ॥ २१-२५ ॥ भिद्यत इत्यर्धमेकं ॥ उत्पेतुरित्यनुषज्यते ॥ २६ ॥ त्रस्ता इत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ आसवभाजनं मद्यपात्रं । पात्राणि भोजनपात्राणि । आर्षभाणि चर्माणि ऋषभचर्मपिनद्धानि खेटकानि । त्सरुः मुष्टिबन्धनं ॥ २७-२८ ॥ कृतकण्ठगुणाः कृतकण्ठस्रजः । क्षीबाः मत्ताः । रक्ताक्षाः मधुपानात् । पुष्कराक्षाः स्वभावत इत्यर्थः ॥ २९ ॥


जननिवृत्तिषु' इत्यमरः ॥ १० ॥ रामानु० अशातयत् अपातयदित्यर्थः । अत्राप्यचल:कर्ता । ति० अशातयत् पर्वतःकर्ता चलनंकरणं ॥ १२ ॥ रामानु० पुष्पौघेणेत्यत्र 'कुमतिच' इतिणत्वं । पुष्पमयोयथा पुष्पमयइव ॥ १३ ॥ ति० मुमोच निपीडनात् । अतएव मध्यमेनमध्यभागेन अर्चिषाज्वालयाजुष्टोयोऽनलस्तस्यधूमराजिरिव बभावित्यर्थः । यस्येत्यध्याहारः ।

  1. ङ. झ. ञ. ट. श्वाशु. क. ख. च. छ. श्चारु
  2. झ. सवृतः
  3. ज. सलिलंच
  4. ङ. च. ज.-ट. मदमत्तः
  5. ङ.-ट. हरिणा
  6. क. च. छ. ज. ञ. सर्वशः
  7. ट. सत्वानि
  8. ङ. च. छ. झ. ञ. ट. महान्सत्व
  9. क. शब्देनोपवनानिच
  10. ङ. झ. ट. पृथुभिर्नागाः
  11. इमेचत्वारःश्लोकाः च. छ. ज. पाठेषुदृश्यन्ते
  12. क. ख. ङ, च. छ. झ. ञ. मासनभाजनं