पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ सुन्दरकान्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः ॥ समुदग्रशिरोग्रीवो गवांपतिरिवाऽऽबभौ ॥ २ ॥
अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ॥ धीर[१]स्सलिलकल्पेषु विचचार यथासुखम् ॥ ३ ॥
द्विजान्वित्रासय[२]न्धीमानुरसा पादपान्हरन् ॥ मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी ॥ ४ ॥
नीललोहितमाञ्जिष्ठ[३]पैत्त्रवर्णैस्सितासितैः ॥ [४]स्वभावविहितैश्चित्रैर्धातुभिस्समलंकृतम् ॥ ५ ॥
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ॥ यक्षकिन्नरगन्धर्वैर्देव[५]कल्पैश्च पन्नगैः ॥ ६ ॥
स तस्य गिरिवर्यस्य तले नागवरायुते ॥ तिष्ठ[६]न्कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥ ७ ॥
स सूर्याय महेन्द्राय पवनाय स्व​यंभुवे ॥ भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ ८ ॥
अञ्जलिं प्राङ्मुखः [७]कृत्वा पवनायात्मयोनये ॥ [८]ततोभिववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ ९ ॥
प्ल​वङ्गप्रवरैर्दृष्टः प्ल​वने कृतनिश्चयः ॥ ववृधे राम[९]वृद्ध्यर्थे समुद्र इव पर्वसु ॥ १० ॥
निष्प्रमाणशरीरस्सँल्लिलङ्घ​यिषुरर्णवम् ॥ [[१०]प्रगृह्यं बलवान्बाहू लङ्कामभिमुखः स्थितः] ॥
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ ११ ॥


न्कारयतीति रावणः अविवेक: तेन नीतायाः स्ववशं प्रापितायाः सीतायाः अनादिभगवत्परतन्त्रचेतनस्य । सीताशब्देनायोनिजत्वोक्तेः । स्त्रीलिङ्गेन पारतन्त्र्योक्तेश्च । स्त्रीप्रायमितरत्सर्वमिति ह्युक्तं । पदं स्थानं संसारमन्डलमन्वेष्टुं । सात्त्विकसम्भाषणादिचिह्नं वा । तथोक्तं "विष्णोः कटाक्षश्चाद्वेष आभिमुख्यं च सात्त्विकैः । संभाषणं षडेतानि त्वाचार्यप्राप्तिहेतवः" इति । यद्वा पदं व्यवसायमन्वेष्टुं कस्य चेतनस्य भगवत्प्राप्तावध्यवसाय इत्यन्वेष्टुं । इयेष । "पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु" इत्यमरः । अत्रैकादशसहस्रश्लोका गता । द्वादशसहस्रस्यादिमोयं श्लोकः । अत्र गायत्र्याः द्वादशमक्षरं प्रयुक्तं । तदवलोकनीयं विद्वद्भिः ॥ १ ॥ निष्प्रतिद्वन्द्वं यथा भवति तथा दुष्करं चिकीर्षन् समुदग्र​शिरोग्रीवः समुन्नतशिरोग्रीवः । गवां पतिः वृषभ ॥ २ ॥ शाद्बलानांस-

लिलकल्पत्वं वैडूर्यवर्णतया ॥ ३ ॥ केसरीव बभाविति शेषः ॥ ४ ॥ नीलेति अत्र यच्छब्दोध्याहार्यः । यदेवंविधं तलं तत्र तिष्ठन्नित्यन्वयः । पत्रवणै: पत्रश्यामैः । "पलाशो हरितो हरित्" इति हलायुधः । सितासितैः कल्माषैः । स्वभावविहितैः स्वतस्सिद्धैः ॥ ५-७ ॥ स्वयंभुवे चतुर्मुखाय । भूतेभ्य: देवयोनिभ्यः ॥ ८ ॥ आत्मयोनये स्वकारणभूताय । दक्षिणः समर्थः । हनुमान् प्राङ्मुखःसन् आत्मयोनये पवनाय । अञ्जलिं कृत्वा ततो दक्षिणां दिशं गन्तुं ववृध इत्यन्वयः । हिः पादपूरणे । अञ्जलिं प्राङ्मुखः कुर्वन्नित पाठस्त्वयुक्तः शतृप्रत्ययेन प्राङ्मुखत्वविशिष्टाञ्जलिकरणदक्षिणदिग्गमनोद्योगयोरेककालिकत्वप्रतीत्या विरोधात् । नहि प्राङ्मुखस्यैव सतो दक्षिणदिग्गमनोद्योगो युज्यते ॥ ९ ॥ रामवृद्ध्यर्थे रामप्रयोजनार्थे ॥ १० ॥ निष्प्रमाणशरीरः निर्मर्यादशरीरः । बाहु-


रामानु० निष्प्रतिद्वन्द्वं प्रतिद्वन्द्वान्निष्कान्तं । प्रतिबन्धकरहितमित्यर्थः ॥ २ ॥ रामानु० वैडूर्यवर्णेषु हरितत्व​संवलितशौक्ल्यविशिष्टतयावैडूर्यवर्णत्वं । शाद्वलानांसलिलकल्पत्वं शैत्यमार्दवादिना ॥ ३ ॥ स० सूर्याय स्व​स्यविद्योपदेष्टृत्वाल्लोकदृष्ट्या । महेन्द्राय व्यवहारसिद्ध्य​र्थेप्रकृतसीताप्रतिकृतिसंनिहितत्वात् । यथोक्तंभगवत्पादैः --- "तस्यास्तुतांप्रतिकृतिंप्रविवेशशक्रः" इत्यादि । पवनाय पितृत्वात् । स्वयंभुवे सर्वगुरुत्वात्स्वस्यवरदानाद्वा । भूतेभ्यः विघ्न​निवारकेभ्योदेवेभ्य । अञ्जालिं हस्तद्वयमेलनं ॥ ८ ॥ स० वृद्ध्यर्थेस्व​पितृत्वोपाधिना पुनरपिवायुंप्रणमति । अञ्जलिमिति । स्वयोनये स्वकारणाय । अथवा आत्मैवयोनिःस्वोत्पत्तिकारणं यस्य तस्मैरामायेतिवा ॥ ९ ॥ स० रामंवृद्ध्यर्थे रामयशोवृद्ध्यर्थे । योववृधे सप्ल​वङ्गप्रवरैर्दृष्टइत्यन्वयः । तेन नपौनरुक्तयं । अथवा अरामवृद्ध्यर्थमितिच्छेदः । अर्थस्तु नविद्यतेरामोयेषांस्वपक्षीयत्वेन तेअरामा । यद्वा अरामाः रामविरुद्धाः । तेषांवृद्ध्यर्थे छेदनार्थे । 'वृधु हिंसायां' इतिधातुव्याख्यानात् । यद्वा वृद्धिरभिवृद्धिः तस्याअर्थोनिवृत्तिस्तमुद्दिश्य । 'अर्थोऽभिधेयरैवस्तुप्रयो-

  1. क. च. छ. ज. ञ. वीरः
  2. क. च.-- झ. न्भीमान्
  3. क. ड. छ.---उ. पद्मवर्णैः
  4. ङ. झ. ञ. ट. स्वभावसिद्वैर्विमलैः
  5. ङ. झ. ञ. ट. र्देवकल्पैस्स
  6. क. तिष्ठन्हरिवरः
  7. झ. कुर्वन्
  8. ङ.-ट, ततोहि
  9. क. सिद्ध्यर्थे
  10. इदमर्धे च. छ. ज. पाठेषुदृश्यते