पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

पिबन्निव बभौ [१]चापि सोर्मि[२]जालं महार्णवम् ॥ पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ६१ ॥
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ॥ [३]नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥ ६२ ॥
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ॥ चक्षुषी संप्रकाशेते [४]चन्द्रसूर्याविवोदितौ ॥ ६३ ॥
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ॥ सन्ध्यया समभिस्पृष्टं [५]यथा तत्सूर्यमण्डलम् ॥ ६४ ॥
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ॥ अम्बरे वायुपुत्रस्य [६]शक्रध्वज इवोच्छ्रितः ॥ ६५ ॥
[७]लाङ्गूलचक्रेण महा[८]ञ्शुक्लदंष्ट्रोऽनिलात्मजः ॥ व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥ ६६ ॥
स्फिग्देशे[९]नाभिताम्रेण रराज स महाकपिः ॥ महता दारितेनेव गिरिर्गैरिकधातुना ॥ ६७ ॥
तस्य वानरसिंहस्य प्लवमानस्य सागरम् ॥ कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ ६८ ॥
[१०]खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिस्सृता ॥ दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥ ६९ ॥
पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः ॥ प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ॥ ७० ॥
उपरिष्टाच्छरीरेण च्छायया चावगाढया ॥ सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥ ७१ ॥
यंयं देशं समुद्रस्य जगाम स महाकपिः ॥ [११]सस तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥ ७२ ॥
सागरस्योर्मि[१२]जालानामुरसा शैल[१३]वर्ष्मणाम् ॥ [१४]अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ ७३ ॥
कपिवातश्च बलवान्मेघवातश्च [१५]निस्सृतः ॥ सागरं [१६]भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥ ७४ ॥
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ॥ पुप्लुवे [१७]कपिशार्दूलो विकिरन्निव रोदसी ॥ ७५ ॥


द्धेन व्याप्तेन ॥ ५८-६० ॥ अर्णवं पिबन्निव आकाशं पिपासुरिवेत्याभ्यामस्य महानुद्योगस्सूच्यते । लङ्घनवेगेन सहसा क्षीयमाणे सागरविस्तारे स पीयमान इव भवति एवमंबरं च । ततोतिवेगेन गच्छन्समहार्णवं पिबन्निव बभौ तथा आकाशमपीत्याहुः ॥ ६१-६२ ॥ पिङ्गे पिङ्गलवणें । पिङ्गाक्षाणां वानराणां मुख्यस्य । परिमण्डले मण्डलाकारे । चन्द्रसूर्यावित्यभूतोपमा ॥ ६३ ॥ तत्सूर्यमण्डलं सन्ध्यासूर्यमण्डलं ॥ ६४ ॥ समाविद्धं उन्नतीकृतं ॥ ६५-६६ ॥ स्फिग्देशेन वालमूलप्रदेशेन ॥ ६७ ॥ गर्जति अग-

र्जत् ॥ ६८ ॥ सानुबन्धा सपुच्छा । उल्का हि पुच्छयुक्ता निपतति ॥ ६९ ॥ पतङ्गः सूर्यः । व्यायतो दीर्घः । प्रवृद्ध इव दीर्घ इव । कक्ष्यायां बध्यमानायां हि मातङ्गो दीर्घो भवति ॥ ७० ॥ नौर्जलावगाढेनाधोभागेन व्योमावगाढेन चोर्ध्वभागेन गच्छति । अयं च उपरिगतशरीरेणाधोजलावगाढच्छायया चैकाकारस्सन् मारुतपूरितकटा नौरिवासीत् ॥ ७१ ॥ सोन्मा इव समुद्धर्षइव समुद्धतजल इत्यर्थः ॥ ७२ ॥ शैलवर्ष्मणां शैलतुल्यानां । "वर्ष्मदेहप्रमाणयोः" इति सज्जनः ॥ ७३-७४ ॥ विकिरन्निव विभजन्निव ।


॥ ६० ॥ ति० विवृतवक्रत्वात्पिबन्निवेति । अधोवक्रत्वेइयमुत्प्रेक्षा । ऊर्ध्ववक्रत्वेआकाशंपिपासुरिवेति । ती० अर्णवसमीपगमनवेलायामुदधिंपिबन्निवबभौ । उपरिगमनावस्थायामाकाशंपिपासुरिवददृशे ॥ ६१ ॥ स० कक्षान्तरगतःबाहुमूलमध्यगतः । 'बाहुमूलेउभेकक्षौ' इत्यमरः ॥ ति० जीमूतइतिसप्तम्यन्तमितिकतकः ॥ ६८ ॥ रामानु० उल्कापातोपमयारावणस्यभाव्यशुभंसूच्यते ॥ ६९ ॥ रामानु० कक्ष्या इभमध्यबन्धनं । 'कक्ष्याप्रकोष्ठेहर्म्यायादेःकाञ्च्यांमध्येभबन्धने ।' इत्यमरः ॥ ७० ॥ ती० सोन्मादइव समुद्रःअपस्मारीवलक्ष्यते भ्रमणफेनजलोद्गमनघोषादिमत्त्वादियमुपमा ॥ ७२ ॥ रामानु० ऊर्मिजालानामित्यत्र 'नलोकाव्यय-'इतिषष्ठ्यानिषेधेपिऋषिप्रयोगात्साधुत्वं । उरसा । उरश्शब्देनोरोवेगजनितोवायुर्लक्ष्यते ॥ ७३ ॥ स०

  1. ख. श्रीमान्.
  2. क. ख. च. छ. ज. ञ. सोर्मिमालं.
  3. घ. नयनेच.
  4. च. छ. ज. चन्द्रसूर्याविवांबरे. क. घ. ङ. झ. ञ. ट. चन्द्रसूर्याविवस्थितौ.
  5. ख. यथासूर्यस्यमण्डलं. ङ ---ट. यथास्यात्सूर्यमण्डलं.
  6. घ. ङ. च. ज.- ट. ध्वजमिवोच्छ्रितं. छ. ध्वजमिवोत्थितं. ख. ध्वजइवोत्थितः.
  7. ङ.--ट. लाङ्गूलचक्रोहनुमान्.
  8. क. ञ्शुक्लदंष्टोमहाकपिः.
  9. ङ. झ. नातितात्रेण.
  10. क. यथातु.
  11. क. घ.-- ट. सतुतस्याङ्गवेगेन.
  12. घ. च. ज. ञ. जालानिउरसा. ख. मालानामुरसा.
  13. क. घ. च.---ञ. शैलवर्ष्मणा.
  14. क. अभिघ्नन्सुमहावेगः.
  15. ङ--- ट. निर्गतः.
  16. ङ. ---ट. भीमनिर्ह्लादं.
  17. क. हरिशार्दूलो.