पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १ ]
श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् ।

मेरुमन्दरसंकाशा[१]नुद्धतान्स महार्णवे ॥ [२]अतिक्रामन्महा[३]वेगस्तरङ्गान्गणयन्निव ॥ ७६ ॥
तस्य वेग[४]समुद्धूतं [५]जलं सजलदं तदा ॥ अम्बरस्थं [६]विबभ्राज शारदाभ्रमिवाततम् ॥ ७७ ॥
तिमिनक्रझषाः कूर्मा दृश्यन्ते [७]विवृतास्तदा ॥ वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ ७८ ॥
[८]प्लवमानं समीक्ष्याथ [९]भुजङ्गास्सागरालयाः ॥ व्योम्नि तं कपिशार्दूलं [१०]सुपर्ण इति मेनिरे ॥ ७९ ॥
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ॥ छाया वानरसिंहस्य [११]जले [१२]चारुतराऽभवत् ॥ ८० ॥
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ॥ तस्य सा शुशुभे छाया [१३]वितता लवणाम्भसि ॥ ८१ ॥
शुशुभे स महातेजा महाकायो महाकपिः ॥ वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥ ८२ ॥
येनासौ याति बलवान्[१४]वेगेन कपिकुञ्जरः ॥ तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥ ८३ ॥
[१५]आपाते पक्षिसंघानां पक्षिराज इव व्रजन् ॥ हनुमान्मेघजालानि प्रकर्षन्मारुतो यथा ॥ ८४ ॥
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ॥ कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे ॥ ८५ ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ॥ प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव [१६]लक्ष्यते ॥ ८६ ॥
प्लवमानं तु तं दृष्ट्वा [१७]प्लवङ्गं त्वरितं तदा ॥ [१८]ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ ८७ ॥
तताप न हि तं सूर्यः प्लवन्तं [१९]वानरोत्तमम् ॥ सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ ८८ ॥
ऋषयस्तुष्टुवुश्चैनं प्लवमानं [२०]विहायसा ॥ जगुश्च देवगन्धर्वाः प्रशंसन्तो [२१]महौजसम् ॥ ८९ ॥
नागाश्च तुष्टुवुर्यक्षा रक्षांसि [२२]विबुधाः खगाः ॥ [२३]प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ ९० ॥


रोदसी द्यावापृथिव्यौ ॥ ७५ ॥ अतिक्रामत् अत्यक्रामत् ॥ ७६ ॥ तस्य हनुमतः । वेगेन ऊरुवातेन समुद्धूतं समुत्थापितं । सजलदं जलं जलदो जलं चोद्धूतमित्यर्थः ॥ ७७ ॥ तिमयो महामत्स्याः नक्रा: ग्राहाः झषा: मकराः । विवृताः जलविभेदेन प्रकाशिताः ॥ ७८-७९ ॥ दशयोजनविस्तीर्णेति । ननु त्रिंशद्योजनायतत्वे चतुर्थपदेपि लङ्काप्राप्तिः स्यात् मैनाकसंवादसुरसासंवादादिकं च विरुध्येत । नहि

बिम्बादधिकपरिमाणत्वं संभवतीति न शङ्कनीयं । छायाशब्दो हि नात्र प्रतिबिम्बपरः किन्त्वनातपपरः । प्रातरेव हि समुद्रतरणमुक्तं तदा तस्य छाया समुद्रे तथाप्रमाणा दृश्येतैव ॥ ८० ॥ अभ्रघनः अभ्रमूर्तिः ॥ ८१-८२ ॥ द्रोणी कटाहः ॥ ८३ ॥ आपाते मार्गे ॥ ८४-८७ ॥ रामकार्यं सीतान्वेषणं तदेवार्थः प्रयोजनं तस्य सिद्धये लाभाय तद्धेतुभूतहनुमच्छ्रमनिवर्तनायेत्यर्थः ॥ ८८-८९ ॥ रक्षांसि


मेरुमन्दरसंकाशान्स्थौल्यतारतम्येनतयो:सदृशान् । मेरुमन्दरइतिमहामेरोरवष्टंभपर्वतः । तत्सदृशान्वा ॥ ७६ ॥ रामानु० जलंसजलदमित्यनेनसमुद्धूतंजलंमेघमण्डलपर्यन्तमभूदित्यवगम्यते ॥ ७७ ॥ ति० छायाप्रमाणवर्णनेनतच्छरीरप्रमाणमपिवर्णितप्रायं । इयंमाध्याह्निकीच्छाया ॥८०॥ ती० श्वेताभ्रघनराजीव अत्रश्वेतशब्देनखच्छतोच्यते । घनशब्देनसान्द्रता । तथाचनिर्मलाभ्रसान्द्रपङ्क्तिरित्यर्थः । ति० श्वेताभ्रघनराजीव श्वेताभ्रयुक्तमेघपङ्क्तिवतस्यच्छायाशुशुभे । शुक्लदंष्ट्रादिनानानावर्णत्वाादुक्तोपमानिर्वाहः ॥ स० श्वताभ्रघनराजीवशुभ्रमेघदीर्घपङ्क्तिरिव । छायाचसमुद्रेप्रतिफलितप्रतिबिंबः । नातपाभावः । तेनशौक्ल्यं संगच्छते । "घन:सान्द्रेदृढेदीर्धे" "छायास्यादातपाभावेप्रतिबिंबार्कयोषितोः" इत्युभयतोविश्वः ॥ ८१ ॥ वि० तस्य उपरीतिशेष ॥ ८७ ॥ स० तत्रहनुमति । दानवाःसज्जनाः ॥ ८७ ॥ रामानु० सिषेवइत्यनेन पुत्रत्वेपिरामकार्यप्रवृत्तत्वात्पूज्यतैवद्योत्यते

  1. ङ. छ. झ. ट. नुद्गतान्सुमहार्णवे.
  2. क. घ. ङ. झ. ञ. ट. अत्यक्रामन्महा.
  3. क. न्महावेगांस्तरङ्गान्.
  4. क. ख. घ.---ट, समुद्धुष्टं.
  5. ख. जलमध्येजलंतदा.
  6. घ. ङ. छ. ज. ञ. ट. विबभ्राजे.
  7. च. छ. विविधास्तदा. घ. विकृतास्तदा.
  8. ङ. ज.---ट. क्रममाणं.
  9. ङ. झ. ट. भुजगाःसागरंगमाः. क. च. छ. ज. भुजगाः.
  10. क. ङ.---ट. सुपर्णमिव.
  11. ङ. झ. ट. जवे.
  12. ज. वारिचरा.
  13. ङ.---ट. पतिता.
  14. घ. न्वेगवान्कपि.
  15. ग. घ. च. आकाशे.
  16. ङ.---ट. दृश्यते.
  17. ग. घ. च.---ट. प्लवगं.
  18. च. छ. ज. ञ. ववर्षुस्तस्यपुष्पाणि. झ. ट. ववर्षुस्तत्रपुष्पाणि.
  19. क. ख. घ.---ट. वानरेश्वरं.
  20. ग. विहायसि.
  21. ङ.---ट. वनौकसं.
  22. क. ग. च. छ. ज. ञ, विविधाःखगाः. ङ. झ. ट. विविधानिच.
  23. क. ख. ग. प्रेक्ष्याकाशे.