पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

तस्मिन्प्लवगशार्दूले प्लवमाने हनूमति ॥ इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ ९१ ॥
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ॥ करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ ९२ ॥
अहमिक्ष्वाकुनाथेन स[१]गरेण विवर्धितः ॥ इक्ष्वाकुसचिवश्चायं ना[२]वसीदितुमर्हति ॥ ९३ ॥
तथा मया विधातव्यं विश्रमेत यथा कपिः ॥ शेषं च मयि विश्रान्तस्सु[३]खेनातिपतिष्यति ॥ ९४ ॥
इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि ॥ हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ ९५ ॥
त्वमिहासुर[४]संघानां पातालतलवासिनाम् ॥ देवराज्ञा गिरिश्रेष्ठ परिघस्सन्निवेशितः ॥ ९६ ॥
त्वमेषां जा[५]तवीर्याणां पुनरेवोत्पतिष्यताम् ॥ पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ ९७ ॥
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ॥ तस्मात्सं[६]चोदयामि त्वामुत्तिष्ठ गिरि[७]सत्तम ॥ ९८ ॥
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ॥ हनूमान्रामका[८]र्यार्थं भीमकर्मा खमाप्लुतः ॥ ९९ ॥
[९]स्य साह्यं मया कार्यमिक्ष्वाकु[१०]कुलवर्तिनः । म[११]म हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ १०० ॥
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ॥ क[१२]र्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥ १०१ ॥
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥ अस्माकम[१३]तिथिश्चैव पूज्यश्च प्लवतांवरः ॥ १०२ ॥
चामीकरमहानाभ देवगन्धर्वसेवित ॥ ह[१४]नुमांस्त्वयि विश्रान्तस्ततश्शेषं गमिष्यति ॥
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ॥ १०३ ॥
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ॥ श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ १०४ ॥


दिक्पालकरक्षस्सबन्धीनि ॥ ९० ॥ मानार्थी बहुमानार्थी । स्वयं सागरत्वादिति भावः ॥ ९१ ॥ सर्ववाच्यः सर्वप्रकारेण निन्द्यः । विवक्षतां वक्तुमिच्छतां ॥ ९२-९४ ॥ हिरण्यनाभं हिरण्यशृङ्गं । नाभिशब्दो ह्यध्यक्षवाची । श्रृङ्गं च पर्वतस्याध्यक्षमेव । "नाभिरध्यक्षकस्तूर्योः" इति दर्पणः ॥ ९५ ॥ परिघः अर्गलं । "परिघो मुद्गरेऽर्गले" इति दर्पणः ॥ ९६ ॥ परिघत्वमेवाह त्वमेषामिति ॥ ९७ ॥

शक्तिः अस्तीति शेषः ॥ ९८-९९ ॥ इक्ष्वाकोः कुले वंशे वर्तते शुश्रूषत इति इक्ष्वाकुकुलवर्ती तस्य । पूज्यतमास्तव मत्संबन्धादिति भावः । यद्वा त्वदुपकारकवायुपुत्रमुद्दिश्य ॥ १०० ॥ कार्यं प्रयोजनं विश्रान्त्यादि । कर्तव्यं कार्यमकृतं सतां मन्युं कोपं उदीरयेत् प्रेरयेत् उत्पादयेत् ॥ १०१-१०२ ॥ चामीकरमहानाभ स्वर्णमयमहाश्रृङ्ग ॥ १०३ ॥ काकुत्स्थस्यानृशंस्यं रामस्य सीताविषयां दयां ॥ १०४ ॥


॥ ८८ ॥ ती० सर्ववाच्यःसर्वनिन्दावाग्विषयः भविष्यामीत्यर्थः ॥ ९२ ॥ ति० सागरेणविवर्धितइत्युक्तया कश्चिद्देशः सागरखातस्यापिएतत्संबद्धइतिज्ञायते ॥ ९३ ॥ ती० हिरण्यनाभं हिरण्यप्रधानं । हिरण्मयमित्यर्थः । 'नाभिःप्रधानेकस्तूर्या' इतिविश्वः । स० हिरण्यनाभं नान्ना । मैनाकं मेनकाहिमवत्पर्वतभार्या । तत्पुत्रं ॥ ९५ ॥ ती० परिघःसंनिवेशितः आयुधविशेषत्वेनसंनिवेशितः । अनेन पक्षच्छेदभयात्समुद्रप्रवेशानन्तरं पातालस्थराक्षसनिरोधार्थे देवराजेनमैनाकःस्थापितइत्यवगम्यते ॥ स० देवराज्ञा देवराजेननिवेशितइवासि । देवराजभयात्क्षिप्तत्वात्तेनप्रक्षिप्तइत्युत्प्रेक्षा । अतो नोत्तरग्रन्थविरोधः ॥ ९६ ॥ ति० ज्ञातवीर्याणां देवराजेनेतिशेषः ॥ ९७ ॥ ति० शक्तिस्ते अस्तीतिशेषः । तस्मात्पिहितपातालमुखएवसन्वृद्धिशक्तयावर्धमानस्सन्नूर्ध्वमुत्तिष्ठ ॥ ९८ ॥ ति० उपर्येति तवोपरिप्रदेशंप्राप्नोति । तस्माद्विश्रमायत्वमुत्तिष्ठेतिपूर्वेणान्वयः । एतदुत्तरं 'हनूमान्राामकार्यार्थेभीमकर्माखमाप्लुतः । श्रमंन्वप्लवगेन्द्रस्यसमीक्ष्योत्थातुमर्हसि' इतिप्राचीन:पाङ्क्तःपाठः । अत्रखमाप्लुतइत्यनन्तरंकेचिच्छ्लोकाःप्रक्षिप्ताःपरैरितिकतकः ॥ ९९ ॥ रामानु० साहाय्यंसहायकर्म । सहकारित्वमितियावत् । ब्राह्मणादित्वात्ष्यञ् । ममइक्ष्वाकवःपूज्याहि ।

  1. झ. ट. सागरेण.
  2. ङ. झ. ट. तन्नार्हत्यवसादितुं. घ. नचार्हत्यवसादितुं.
  3. ङ. ज---ट. स्सुखीसोतिंतरिष्यति. च. स्सुखीसोतिगमिष्यति. घ. स्सुखेननिपतिष्यति.
  4. ङ. झ. ट. सङ्घानांदेवराज्ञामहात्मना । पातालनिलयानांहिपरिघः संनिवेशितः.
  5. ङ.---ट. ज्ञातवीर्याणां.
  6. च. छ. ज. त्संबोधयामि.
  7. क. ग. च. छ. ज. नगसत्तम. ख. त्वंनगोत्तम.
  8. ङ. झ. ट. कार्यार्थी.
  9. एतदादयः--–'मैथिल्याश्चविवासनं' इत्येतदन्ताःपञ्चश्लोकाः झ. पुस्तकेनदृश्यन्ते. । ग. साहाय्यंतस्यकर्तव्यं. क. तस्यसाह्यं.
  10. क. वशवर्तिनः.
  11. ञ. ममचेक्ष्वाकवः. ग. मयाहीक्ष्वाकवः,
  12. छ . ज. कर्तव्यंनतुयत्कार्ये. ग. घ. कर्तव्यनंकृतंकार्ये.
  13. क. ग. मतिथिर्ह्येष. घ. मतिथिश्चैष.
  14. क. हनूमांस्त्वेष.