[१]हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ॥ [२]उत्पपात जलात्तूर्णं महाद्रुम[३]लतायुतः ॥ १०५ ॥
[४]स सागरजलं भित्त्वा [५]बभूवाभ्युत्थितस्तदा ॥ यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ १०६ ॥
स महात्मा मुहूर्तेन पर्वतस्सलिलावृतः ॥ दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ १०७ ॥
[६]शातकुम्भनिभैश्शृङ्गैः सकिन्नरमहोरगैः ॥ आदित्योदय[७]संकाशैरालिखद्भिरिवाम्बरम् ॥ १०८ ॥
[८]तप्तजाम्बूनदैश्शृङ्गैः पर्वतस्य [९]समुत्थितैः ॥ आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ॥ १०९ ॥
जातरूपमयैश्शृङ्गैर्भ्राजमानैः [१०]स्वयंप्रभैः ॥ आदित्यशतसंकाशस्सोभवद्भिरिसत्तमः ॥ ११० ॥
तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् ॥ मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ १११ ॥
स [११]तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ॥ उरसा पातयामास जीमूतमिव मारुतः ॥ ११२ ॥
स [१२]तदा पातितस्तेन कपिना पर्वतोत्तमः ॥ [१३]बुद्ध्वा तस्य [१४]कपेर्वेगं जहर्ष च [१५]ननन्द च ॥ ११३ ॥
तमाकाशगतं वीरमाकाशे [१६]समुपस्थितः ॥ [१७]प्रीतो हृष्टमना [१८]वाक्यमब्रवीत्पर्वतः कपिम् ॥
मानुषं धारयन्रूपमात्मनश्शिखरे स्थितः ॥ ११४ ॥
[१९]दुष्करं कृतवान्कर्म त्वमिदं[२०]वानरोत्तम ॥ निपत्य मम शृङ्गेषु [२१]विश्रमस्व यथासुखम् ॥ ११५ ॥
राघवस्य कुले जातैरुदधिः परिवर्धितः ॥ स त्वां [२२]रामहिते [२३]युक्तं प्रत्यर्चयति सागरः ॥ ११६ ॥
कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः ॥ सोयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ॥ ११७ ॥
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ॥ तिष्ठ त्वं [२४]कपिशार्दूल [२५]मयि विश्रम्य गम्यताम् ॥ ११८ ॥
निशंम्य वचनमितिशेषः ॥ १०५-१०७ ॥ शातकुम्भनिभैः स्वर्णसदृशैः । आदित्योदयसंकाशैः आदित्योदयतुल्यैरित्यर्थः । शृङ्गैरुपलक्षित: श्रृङ्गाणि दर्शयामासेति योजना ॥ १०८ ॥ शस्रसंकाशं नीलमित्यर्थ । "शस्त्रमायुधलोहयोः" इतिविश्वः ॥ १०९-११० ॥ निश्चितः निश्चितवान् । कर्तरिनिष्ठा |
॥ १११-११२ ॥ जहर्ष विसिष्मिये ॥ ११३ ॥ प्रीतः प्रीतिद्योतकव्यापारः ॥ ११४- ११६ ॥ कृते उपकारे । त्वत्प्रतिकारार्थी त्वदातिथ्यकरणापेक्षी त्वत्तः संमाननमर्हतीति त्वया तत्कृतातिथ्यपरिग्रह एवास्य संमाननमित्यर्थः ॥ ११७ ॥ चोदनाप्रकारमाह योजनानामिति । प्रक्रमतामिति प्रचोदित इति पूर्वे- |
मद्वृद्धिहेतुत्वात् । तवपरंपूज्यतमाः सगरविवृद्धमदन्तःप्रवेशसुखावस्थानादिफलभोक्त्रृत्वादितिभावः ॥ १०० ॥ रामानु० जीमूतइवमारुतइत्यनेनअनायासेनपर्वतंपातितवानितिद्योत्यते ॥ ११२ । रामानु० जहर्षचननन्दचेतिपदद्वयेनकायमनसोर्विकृतिरुच्यते । अस्यवेगेनग्लानिराहित्यंबुद्ध्वाहृष्टमनाबभूवेत्यर्थः । ति० सादितः अवसादितः अधःकृतइतियावत् । जहर्षचननादचेतिप्राचीन:पाठः । बलवैभवंदृष्ट्वाजहर्ष । स्वोत्थानप्रयोजनावेदनाय ननाद शब्दंकृतवान् । ननन्देतित्वाधुनिककल्पितःपाठः ॥ ११३ ॥ रामानु० प्रीतःसुखितः । हृष्टमनाः प्रसन्नमनाः ॥ ११४ ॥ रामानु० विश्रमस्वेति । श्रमिरात्मनेपदीकश्चिदस्ति । तथाचोक्तंभट्टमल्लेन--- "विश्राम्यतीतिविश्रान्तौक्वचिद्विश्रमतेपिच" इति ॥ ११५ ॥ रामानु० त्वन्निमित्तमित्यादिश्लोकद्वयमेकंवाक्यं । एषकपि:योजनानांशतंचापिसमाप्लुतःसमापतितुमुपक्रान्तः । तवसानुषुविश्रान्तःशेषं मार्गशेषंप्रक्रमतामितित्वन्निमित्तंअहमनेनसागरेणबहुमानात्प्रचोदितः । अतःकपिशार्दूल त्वंतिष्ठ । मयिविश्रम्यगम्यतामित्यन्वयः ।
वा. रा. १५०
- ↑ ङ. झ. ट. हिरण्यगर्भों. क. हिरण्यनाभस्तद्वाक्यंनिशम्य.
- ↑ क. उत्पपाताथवेगेनजलाद्द्रुम.
- ↑ ङ. झ. ट. लतावृतः.
- ↑ ग. च. छ. ज. ञ. सागरस्यजलं.
- ↑ ङ. झ. ट. बभूवात्युच्छ्रितस्तदा. क. बभूवावस्थितस्तदा.
- ↑ ख. घ.---ट. शातकुंभमयैः.
- ↑ ङ. झ. ञ. ट. संकाशैरुल्लिखद्भिः.
- ↑ क---ट. तस्यजांबूनदैः.
- ↑ क. च. समुच्छ्रितैः.
- ↑ ङ. झ. ञ. ट. महाप्रभैः. ख. स्वलंकृतै.
- ↑ झ. तमुत्थितं.
- ↑ घ. च. छ. तथासादितस्तेन. ङ. झ. ञ. ट. तदासादितस्तेन. क. ख. ग. तथापातितः.
- ↑ ज. बुद्ध्वास्यसुमहावेगं.
- ↑ च. छ. महावेगं. ङ. झ. ञ. ट. हरेर्वेगं.
- ↑ क. ग. ङ. झ. ज. ट. ननादच.
- ↑ च. छ. ज. समवस्थितं. ख. ग. घ. समवस्थितः. क. समुपस्थितं.
- ↑ ग. प्रीतिहृष्टमनाः.
- ↑ च. छ. ज. वाक्यं पर्वतःकपिमब्रवीत्.
- ↑ ट. दुष्कृतं.
- ↑ क. वानरर्षभ.
- ↑ ङ. झ. ट. सुखंविश्रम्यगम्यतां.
- ↑ ग. रामहितार्थाय.
- ↑ घ. युक्तमभ्यर्चयति.
- ↑ क.---ज. ञ. हरिशार्दूल.
- ↑ क. विश्रम्यमयि.