पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

एकोनविंशः सर्गः ॥ १९ ॥

 ग्रन्थकृतानानावस्त्वौपम्येन बहुधोपवर्णितांसीतांप्रति रावणेनप्रलोभनोपक्रमः ॥ १ ॥

तस्मिन्नेव ततः काले राजपुत्री [१]त्वनिन्दिता ॥ रूपयौवनसंपन्नं भूषणोत्तमभूषितम् ॥ १ ॥
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ॥ प्रावेपत वरारोहा प्रवाते कदली यथा ॥ २ ॥
[२]आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ ॥ उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥ ३ ॥
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ॥ ददर्श [३]सीतां दुःखार्तां नावं सन्नामिवार्णवे ॥ ४ ॥
असंवृतायामासीनां धरण्यां शंसितव्रताम् ॥ छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥ ५ ॥
मल[४]मण्डनचित्राङ्गीं मण्डनार्हाममण्डिताम् ॥ मृणाली पङ्कदिग्धेव [५]विभाति न विभाति च ॥ ६ ॥
समीपं राजसिंहस्य रामस्य विदितात्मनः ॥ संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ॥ ७ ॥
शुष्यन्तीं रुदतीमेकां [६]ध्यानशोकपरायणाम् ॥ दुःखस्यान्तमपश्यन्ती रामां राममनुव्रताम् ॥ ८ ॥
[७]वेष्टमानां तथाऽऽविष्टां पन्नगेन्द्रवधूमिव ॥ धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥ ९ ॥
[८]वृत्तशीलकुले जातामाचारवति धार्मिके ॥ पुनःसंस्कारमापन्नां जातामिव च दुष्कुले ॥ १० ॥
अभूतेनापवादेन कीर्तिं निपतितामिव ॥ आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ११ ॥
सन्नामिव महाकीर्तिं श्रद्धामिव [९]विमानिताम् ॥ [१०]पूजामिव परिक्षीणामाशां प्रतिहतामिव ॥ १२ ॥
आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव ॥ दीप्तामिव दिशं काले [११]पूजामपहृतामिव ॥ १३ ॥


तस्मिन्नित्यादिश्लोकद्वयमेकान्वयं ॥ ततः रावणागमनानन्तरं । तस्मिन्नेव काले तदागमनानन्तरकाल एव । भूषणोत्तमभूषितं रूपयौवनसंपन्नं रावणं ततो दृष्ट्वैव तत्र दूरदेश एव दृष्ट्वा प्रावेपतेतिसंबन्धः ॥ १-५ ॥ मलमण्डनचित्राङ्गी मलरूपमण्डनेन चित्राङ्गीं । मलावृतामप्याश्चर्यावहदेहामित्यर्थः । मृणाली पङ्कदिग्धेवेत्यत्र येत्यध्याहार्यं ॥ ६-८ ॥ आविष्टां मणिमन्त्राद्यभिभूतां । धूप्यमानां संतप्यमानां । धूमः केतुरिव धूमकेतुः केतुना ग्रहेणेत्यर्थः । यद्वा ग्रहेण ग्राहकेण आच्छादकेनेति धूमकेतुर्विशिष्यते ॥ ९ ॥ वृत्तं दृढं शीलं स्वभावो यस्य तत् तच्च तत् कुलं च तस्मिन् । आचारवति समयाचारवति । धार्मिके

यज्ञादिधर्मप्रधाने एवंभूते कुले जातां । संस्कारमापन्नां विवाहरूपसंस्कारमापन्नां । अतः संस्कारद्वारा दुष्कुले पुनर्जातामिव स्थितां । कुमाराणामुपनयनमिव कुमारीणां विवाहो द्वितीयं जन्म | "वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः ... स्मृतेः ॥ १०-११ ॥ सन्नां क्षीणां । ... विमानितां अवमानितामित्यर्थः । अवमाने ... अवमन्तरि श्रद्धा मन्दीभवति । पूजामिव ... स्वल्पपूजाद्रव्यामित्यर्थः । प्रतिहतां निष्फलां ... आयतीं धनलाभं । विध्वस्तां मन्दीभूतां । ... अननुष्ठितां । दीप्तां दाहयुक्तां । काले उत्पात... पूजामपहृतामिव । अत्र पूजाशब्देन पूजाद्रव्य...


ति० मलेनमण्डनस्थानेषुदिग्धाङ्गी रूषिताङ्गीं । चित्राङ्गीमितिपठित्वा मलरूपेणमण्डनेन चित्राङ्गी कर्बुरामित्यर्थेती... संन्यासित्वादुचितैवतस्यमलेपिमण्डनत्वबुद्धिः । ईदृशींयांददर्श सा पङ्कदिग्धामृणालीवविभातिनविभातिच ॥ स्वरूपशोभय... लावराञ्चविभाति नविभातिचेत्यर्थः ॥ ६ ॥ ति० वृत्तमाचारः । शीलं सत्स्वभावः । तद्युते विहितकर्मानुष्ठानवतिचकु... तादृशएवकुले पुनःसंस्कारं पाणिग्रहणसंस्कारमापन्नामपि दुष्कुलेजातां उत्पन्नां तत्रैवप्राप्तसंस्कारामिवचमलिनांस्थितां ... धार्मिके एतादृशेपितृकुलेजाता । सैवदुष्कुले वृत्तादिरहितेविवाहाख्यसंस्कारेणपुनर्जाताचेत्सायथावर्तेत तथाविद्यमानां ॥

  1. घ. ह्यनिन्दिता.
  2. क. ख. घ. ङ. छ.---ट. ऊरुभ्यामुदरंछाद्य.
  3. क. घ.---ट. दीनां.
  4. ख. ङ. ... ट. मण्डनदिग्धाङ्गीं.
  5. क. ख. विभातिचनभातिच.
  6. क. शोकध्यानपरायणां.
  7. क. ख. घ.---ज. ञ. ट. वेष्टमाना...
  8. झ. ट. वृत्तशीलेकुले.
  9. ख. विनाशितां.
  10. क. ख. ङ. ज. झ. ट. प्रज्ञामिव.
  11. ङ. ञ. पूजामपहतामिव... पूजांप्रतिहृतामिव.