पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ॥ तां [१]नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥ ६ ॥
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ॥ [२]सदामदैश्च विहगैर्विचित्रां [३]परमाद्भुताम् ॥ ७ ॥
ईहामृगैश्च विविधै[४]र्जुष्टां दृष्टिमनोहरैः ॥ वीथी: संप्रेक्षमाणश्च मणिकाञ्चन[५]तोरणाः ॥ ८ ॥
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ॥ अशोकवनिकामेव प्राविशत्संततद्रुमाम् ॥ ९ ॥
[६]अङ्गनाशतमात्रं तु तं व्रजन्तम[७]नुव्रजत् ॥ महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ १० ॥
दीपिकाः [८]काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः ॥ वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ ११ ॥
[९]काञ्चनैरपि भृङ्गारैर्जहुः सलिलमग्रतः ॥ [१०]मण्डलाग्रान्बृसीं चैव [११]गृह्यान्याः पृष्ठतो ययुः ॥ १२ ॥
काचिद्रत्नमयीं [१२]स्थालीं पूर्णां पानस्य [१३]भामिनी ॥ दक्षिणा दक्षिणेनैव [१४]तदा जग्राह पाणिना ॥ १३ ॥
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् ॥ सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ १४ ॥
निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः ॥ अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ १५ ॥
व्याविद्धहारकेयूराः समामृदितवर्णकाः ॥ समागलितकेशान्ताः सस्वेद[१५]वदनास्तथा ॥ १६ ॥
घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः ॥ स्वेदक्लिष्टाङ्गकुसुमाः [१६]सुमाल्याकुलमूर्धजाः ॥ १७ ॥
प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः ॥ बहुमानाच्च कामाच्च [१७]प्रिया भार्यास्तमन्वयुः ॥ १८ ॥
स च कामपराधीनः पतिस्तासां महाबलः ॥ सीतासक्तमना मन्दो मदाञ्चितगतिर्बभौ ॥ १९ ॥
ततः काञ्चीनिनादं च नूपुराणां च निस्स्वनम् ॥ शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ २० ॥


॥ ५-७ ॥ वीथीः उद्यानवीथीः ॥ ८-९ ॥ महेन्द्रं देवगन्धर्वयोषितइव ब्रजन्तं तं । अङ्गनाशतमात्रं अनुव्रजत् अन्वव्रजत् ॥ १० ॥ तालवृन्तानि व्यजनानि ॥ ११ ॥ भृङ्गारैः कनकालुकाभिः । "भृङ्गारः कनकालुका" इत्यमरः । मण्डलाग्रान् असिविशेषान् । "मण्डलाग्रो नतार्थकः" इति वैजयन्ती । बृसीं आस्तरणं । गृह्य गृहीत्वा ॥ १२ ॥

पानस्य पूर्णां पीयत इति पानं मधु तस्य पूर्णां तेन पूर्णां । "पूरणगुण---" इत्यादिना सुहितार्थयोगे षष्ठीसमासनिषेधज्ञापकादत्र षष्ठी । स्थालीं पात्रीं ॥ १३-१५ ॥ व्याविद्धाः व्यत्यस्ततया न्यस्ताः । समामृदितवर्णकाः संमृष्टानुलेपनाः । ... समालम्भो वर्णकश्च विलेपनं" इति निघण्टुः ... १८ ॥ मदेनाञ्चिता गतिर्यस्य स मदा...


इति । तस्यार्थः---वाजमित्यन्ननाम । अन्नदानेनयेसर्वेषांबन्धवःतेषांसंबोधनं । हेवाजबन्धवः युष्मेयुष्मास्वधि । सप्तम्य... धिः । निनित्सुश्चन निन्दनेच्छाशीलोपिमर्त्योऽवद्यं नदीधरत् नधारयति । भगवदनुसन्धानेनैवनिष्पापत्वादिति । एवं... निन्दावरुद्धभावेनध्यानमपिनरकभोगोत्तरंजन्मान्तरेउत्तमफलाय । अतएवास्यमरणोत्तरंचतुर्थचतुर्युग्यांचेदिराजकुलेजन्म ... विंशतिचतुर्युग्यांरामावतारइतिहरिवंशोक्तेः । तावत्पर्यन्तंचैतत्पापफलभोगइत्यर्थायातमितिबोध्यं ॥ शि० मदनेन मा... रापानादिना मदोत्कटः उत्कटदैन्यविशिष्टोपिराक्षसः । यतस्तस्यांसीतायां । भृशं अत्यन्तं । नियुक्तः संस्थापितचित्तः । ... सीतागोपनविषयकं कामं इच्छां । आत्मनि मनसि । गूहितुं नियमितुं । नशशाक ॥ स० मदनेन तस्यांसीतायांनियुक्तः ... पूर्वमेव । मदोत्कटः व्यक्तमदः । तं मदनं । गूहितुं निग्रहीतुं ॥ ५ ॥ ति० अङ्गनाः । शतमात्रमित्यवधारणेइतिक... देवादियोषितोमहेन्द्रमिव पौलस्त्यं अनुव्रजन् । अडभावआर्षः ॥ स० अङ्गनाशतमेवाङ्गनाशतमात्रं देवगन्धर्वयोषितो... मिवपौलस्त्यं अनुव्रजदभूत् ॥ १० ॥ ती० भृङ्गाराः धत्तूरकुसुमसदृशजलपात्राणि ॥ ति० मण्डलाग्रावृत्तपर्यन्ताः बृसीः ... विशेषान् । तपस्विनामिमेतृणादिना । अस्यतुस्वर्णेनेतिविशेषः ॥ स० बृसीः ऋषिपुत्रत्वाद्रावणस्यऋष्यासनवत्वं ॥ १२ ...

  1. ग. ङ.---ट. नगैर्विविधैः.
  2. ग. ङ. ट. मत्तैश्च.
  3. क. ङ. झ. ञ. ट. परमाद्भुतैः.
  4. क. ग. घ. च. ... विविधैर्वृतां.
  5. ख. ङ. झ. ञ. ट. तोरणां.
  6. ख. झ. ञ. ट. अङ्गनाःशतमात्रंतु.
  7. ख. झ. ञ. ट. मनुव्रजन्.
  8. ... काञ्चनीश्चापिजगृहुः.
  9. ङ. झ. ञ. ट. काञ्चनैश्चैव.
  10. ग. ङ.---ट. मण्डलाग्राबृसीश्चैव. क. घ. मण्डलाग्रानसींश्चैव.
  11. ... वहन्त्यःपृष्ठतो.
  12. क.---ङ. छ. झ. ञ. ट. पात्रीं.
  13. ङ. झ. ञ. ट. भ्राजतीं.
  14. क. परिजग्राह.
  15. च.... ज. वदनांबुजाः.
  16. ख. घ.---ञ. समाल्याकुल.
  17. च.---ट. प्रियभार्याः.