पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १८]
७७
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ संवृतां मृगशाबाक्षीं ददर्श हनुमान्कपिः ॥ २६ ॥
तां देवीं दीनवदना[१]दीनां भर्तृतेजसा ॥ रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ॥ २७ ॥
तां दृष्ट्वा हनुमान्सीतां मृगशाबनिभेक्षणाम् ॥ [२]मृगकन्यामिव त्रस्तां वीक्षमाणां [३]समन्ततः ॥ २८ ॥
दहन्तीमिव निश्श्वासैर्वृक्षान्पल्लवधारिणः ॥ संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ॥ २९ ॥
[४]तां क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ॥ प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥ ३० ॥
हर्षजानि [५]च सोशूणि तां दृष्ट्वा मदिरेक्षणाम् ॥ मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥ ३१ ॥
[६]नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान् ॥ सीतादर्शनसंहृष्टो हनुमान्संवृतोऽभवत् ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तदशः सर्गः ॥१७॥


अष्टादशः सर्गः ॥ १८॥

शिंशुपाविटपाग्रगेनहनुमता अपररात्रेप्रबुध्यमदनपरवशतथाप्रमदाशतेनसह सीतासमीपमागच्छतोरावणस्यावलोकनम् ॥ १ ॥ ततः सीतासमीपमागतस्यरावणस्यचेष्टादेःस्फुटावगमाय उच्चशाखाग्रादवरोहणेनाधश्शाखाग्रेनिगूढमवस्थानम् ॥ २ ॥

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् ॥ विचिन्वतश्च वैदेहीं किंचिच्छेषा निशाऽभवत् ॥ १ ॥ षडङ्गवेदविदुषां ऋतुप्रवरयाजिनाम् ॥ शुश्राव [७]ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥ २ ॥ अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः ॥ [८]प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ ३ ॥ [९]विबुध्य तु [१०]यथाकालं राक्षसेन्द्रः प्रतापवान् ॥ स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ ४ ॥ भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः ॥ [११]न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ ५ ॥


नीयामित्यर्थः ॥ २४-२५ ॥ मलिनेनेत्यादिश्लोकद्वयमेकं वाक्यं ॥ २६-२७ ॥ तामित्यादिश्लोकत्रयमेकं ...॥ २८-२९ ॥ क्षमां क्षमामिव स्थितां । ...यवसानादभेदोक्तिः । तां दृष्ट्वा तां प्रेक्ष्येत्य...षणविशेष्यभेदान्न पौनरुक्त्यं । दूरप्रयुक्त...रणार्थं वा पुनरुक्तिः ॥ ३० ॥ राघवं नम... उपपदविभक्त्यपेक्षया कारकविभक्तेर्बलीय...स्करोति देवानित्यादाविव द्वितीया ॥ ३१ ॥ ... राक्षस्यदर्शनाय शिंशुपापर्णैर्गूढोऽभूत् ॥ ३२ ॥ ... श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे

शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तदशः सर्गः ॥ १७ ॥


 विप्रेक्षमाणस्य विचिन्वतश्च विप्रेक्षमाणे विचिन्वति च तस्मिन्नित्यर्थः । "यस्य च भावेन भावलक्षणं" इत्यर्थे षष्ठी ॥ १ ॥ विरात्रे अपररात्रे "अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः" इत्यत्र चकारादव्ययादुत्तरस्य रात्रिशब्दस्य समासान्तोच् प्रत्ययः । ब्रह्मरक्षसां ब्राह्मणत्वविशिष्टरक्षसां । ब्रह्मघोषान् वेदघोषान् ॥ २-४ ॥ नियुक्तः प्रेरितः


... क्षामां कृशां ॥ ३० ॥ ती०. अत्रतांतामितितच्छब्दावृत्त्यातत्तदवस्थाभेदस्यवर्णितत्वादपौनरुक्त्यं ॥ ३१ ॥ इति ... सर्गः ॥ १७ ॥

... वस्तुतस्तुमदनेसत्यपिमदोत्कटोन । अतएवतस्यांसीतायांनियुक्तः नितरांयुक्तः विनीतइत्यर्थः । अतएवराक्षसः तंकामं ...गूहितुंनशशाकेतिकाकुः ॥ ति० भृशंनियुक्तः गाढाभिनिवेशितचित्तः । कामं कामवेगं । ईदृशेषुतीर्थस्यान्यथायोजनं ... । रक्षसस्तमोगुणाविष्टस्यभगवन्मायामोहितस्याकृत्येष्वेवप्रवृत्तेः । तथाक्रियमाणंभगवध्द्यानमपिपापभोगोत्तरंजन्मान्तरेउत्त...येतिबोध्यं । अतएवऋक्षाश्वमेधनाम्नोराज्ञोदानस्तावकऋक्ष्मन्त्रः "नयुष्मेवाजबन्धवनिनित्सुश्चनमर्त्यः । अवद्यमधिदीधरत्"

  1. ङ. महीनां.
  2. ग. नागकन्यामिव.
  3. ग. ततस्ततः.
  4. घ. ङ. झ. ञ. ट. तांक्षामां. क. च. छ. ज. तां... ग. सीतांसमविभक्ताङ्गीं.
  5. क. च. छ. ज. तथाश्रूणि.
  6. क. घ. च. ज.---ट. नमस्कृत्वाच.
  7. ङ. ज. झ. ट. ब्रह्म...षान्स.
  8. घ. ङ. च. झ. ञ. ट. प्राबोध्यत.
  9. ग. विबुध्यच.
  10. ङ. झ. ञ. ट. महाभागो.
  11. ङ. झ. ट. नतु.