पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १४ ]
६३
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

संक्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च ॥ [१]सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ ६४ ॥
ब्रह्मा स्वयंभूर्भगवान्[२]देवाश्चैव दिशन्तु मे ॥ सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ॥ ६५ ॥
वरुणः पाशहस्तश्च [३]सोमादित्यौ तथैव च ॥ अश्विनौ च महात्मानौ मरुतः [४]शर्व एव च ॥ ६६ ॥
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ॥ [५]दास्यन्ति मम [६]ये चान्ये ह्यदृष्टाः पथिगोचराः ॥ ६७ ॥

[७]तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् ॥
द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिप[८]तुल्यदर्शनम् ॥ ६८ ॥
क्षुद्रेण [९]पापेन [१०]नृशंसकर्मणा सुदारुणालङ्कृतवेषधारिणा ॥
बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत् ॥ ६९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयोदशः सर्गः ॥ १३ ॥



चतुर्दशः सर्गः ॥ १४ ॥

अशोकवनिकाप्राकारावस्थानेन वनरामणीयकावलोकनपूर्वकं वनंप्रविष्टेन शाखाचालनात्पुष्पादिशातनेन वृक्षाद्वृक्षान्तरो प्लवनेन सर्वतः सीतांचिन्वताहनुमता मध्येवनं काञ्चनवेदिकामण्डलमध्यवर्तिन्याः काञ्चनवृक्षपरिवृतायाः कस्याश्चित्काञ्चनमयशिशुपाया दर्शनं ॥ १ ॥ तद्देशे रमणीयतरनदींप्रति सन्ध्योपास्त्याद्यर्थं सीतायाआगमनसंभावनेन तद्दिदृक्षया शिंशुपारोहणेन पर्णनिबिडविटपाग्रे निलीयावस्थानं ॥२॥

स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् ॥ [११]अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ १ ॥
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः ॥ पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् ॥ २ ॥


एवंभूतप्रदेशे भवतः कथं गमनमित्याशङ्कयाह---संक्षिप्त इति ॥ मया अयमात्मा देहः । रामार्थे रामप्रयोजनसिद्ध्यर्थं । रावणस्य चार्थे रावणादृश्यत्वार्थं च । संक्षिप्तः अल्पीकृतः । एवं मया कार्यानुकूलो ...कृतः कार्यसिद्धिं तु देवा विधास्यन्तीत्याह---...मिति । संविधास्यन्ति ददत्वित्यर्थः ॥ ६४-६५ ॥ ...रुद्रः ॥ ६६ ॥ उक्तमर्थं पुनः संग्रहेणाह---... सर्वाणि भूतानीति ॥ भूतानां प्रभुः उक्तब्रह्म...धाधिपतिः। परिशेषाद्विष्णुरित्यवगम्यते । पन्थाः ...रः येषां ते पथिगोचराः मार्गवर्तिनः ॥ ६७ ॥ ...तस्मात्कारणात् । उन्नता नासिका यस्य तदुन्नसं

"उपसर्गाच्च" इति समासान्तोचूप्रत्ययः नसादेशश्च । अव्रणं अनवद्यं । तत् अभिज्ञातव्यत्वेन रामेण निवेदितं ॥ ६८ ॥ सुदारुणालंकृतवेषधारिणा सुदारुणत्वेऽप्यापातप्रसन्नवेषधारिणा ॥ ६९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयोदशः सर्गः॥ १३ ॥


 इवशब्दो वाक्यालंकारे । प्राकारं अशोकवनिकाप्राकारं । तस्य वेश्मनः रावणस्य गृहात् । अवप्लुतः प्राप्तः ॥ १ ॥ संहृष्टसर्वाङ्गः पुलकितसर्वाङ्गः ।


...क्षोबहुलेत्युत्प्रेक्षया चन्द्रास्तःसूचितः । अन्यथा तत्प्रकाशेन निश्चयएवस्यात् ॥ ६२ ॥ शि० रामार्थेरावणस्यवनिकायां ...मात्मादेहःसंक्षिप्तः प्रवेशितः । मेसिद्धिंतु सर्षिगणादेवादिशंतु । किंच संक्षिप्तशब्दस्यलघूकृतइत्यर्थः । रावणस्य समा...कीभूतार्थेन्वयः । सविशेषणानामित्यस्यतु नविषयः । अर्थस्यविशेष्यत्वात् । रावणसंबद्धार्थशब्दस्यविनाशपरत्वं । वनिका...णार्थमित्यध्याहारोवा ॥ ति० रावणस्य अर्थेइत्यनुकर्षः । रावणकर्तृकदर्शनपरिहारायेत्यर्थः ॥ ६४ ॥ ति० भूतानांप्रभुः ... । दास्यन्ति । तेषामप्यस्यार्थस्येष्टत्वादितिभावः । पूर्वंप्रार्थना इदानींतु तन्निश्चयः ॥ ६७ ॥ इतित्रयोदशः सर्गः ॥१३॥

 ......० मुहूर्तमिवध्यात्वा मुहूर्तंध्यात्वेव ॥ १ ॥ शि० वसन्तादौचैत्रे । किंच वसन्तआदीयते नित्यंप्रतीयते यस्यांतस्यांभूमौ ॥

  1. ङ. झ. ट. सिद्धिंदिशन्तुमेसर्वे. क. कार्यसिद्धिंप्रयच्छन्ति.
  2. ङ. झ. ञ. ट. न्देवाश्चैवतपस्विनः. क. च. छ. ...ज. न्वेदाश्चैव.
  3. क. सोमसूर्यौ. ख. इन्द्रादित्यौ.
  4. झ. ञ. सर्वएवच.
  5. क. ग. च. छ. ज. दास्यन्तिसिद्धिं.
  6. ग. च. छ. ...येचान्येभूताश्च. घ. ङ. झ. ञ. येचान्येप्यदृष्टाः.
  7. क. च. छ. ज. समुन्नसं.
  8. ङ. झ. ञ. तुल्यवर्चसं.
  9. ङ.---ट. ...हीनेन.
  10. नृशंसमूर्तिना.
  11. क. अवप्लुत्य.