इति [१]चिन्तां समापन्नः सीतामनधिगम्य ताम् ॥ ध्यानशोकपरीतात्मा चिन्तयामास वानरः ॥ ५१ ॥
यावत्[२]सीतां हि पश्यामि रामपत्नीं यशस्विनीम् ॥ तावदेतां पुरीं लङ्कां विचिनोमि पुनःपुनः ॥ ५२ ॥
संपातिवचनाच्चापि रामं यद्यानयाम्यहम् ॥ अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान् ॥ ५३ ॥
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः ॥ न मत्कृते विनश्येयुः सर्वे ते नरवानराः ॥ ५४ ॥
अशोकवनिका [३]चेयं दृश्यते या महाद्रुमा ॥ [४]इमामधिगमिष्यामि न हीयं विचिता मया ॥ ५५ ॥
[५]वसुरुद्रांस्तथाऽऽदित्यानश्विनौ [६]मरुतोपि च ॥ नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥ ५६ ॥
जित्वा तु [७]राक्षसान्सर्वानिक्ष्वाकुकुलनन्दिनीम् ॥ संप्रदास्यामि रामाय [८]यथा सिद्धिं तपस्विने ॥ ५७ ॥
स मुहूर्तमिव ध्यात्वा [९]चिन्तावग्रथितेन्द्रियः ॥ उदतिष्ठन्[१०]महातेजा हनूमान्मारुतात्मजः ॥ ५८ ॥
[१३]स तेभ्यस्तु [१४]नमस्कृत्य सुग्रीवाय च मारुतिः ॥ दिशः सर्वाः समालोक्य [१५]ह्यशोकवनिकां प्रति ॥ ६० ॥
स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् ॥ उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ ६१ ॥
ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला ॥ अशोकवनिका [१६]चिन्त्या सर्वसंस्कारसंस्कृता ॥ ६२ ॥
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् ॥ भगवानपि [१७]सर्वात्मा नातिक्षोभं [१८]प्रवाति वै ॥ ६३ ॥
पशुं अजमिव । "इमं पशुं पशुपते ते अद्य बध्नाम्यग्रे" इति श्रुतेः । अनेन सुप्रापत्वमुक्तं ॥ ५० ॥ प्रथमं चिन्ता विचारः । ततो ध्यानं ज्ञातव्यविषयनिरंतरप्रत्ययः। ततश्चिन्तेति दुरन्तचिन्तोच्यते ॥ ५१ ॥ चिन्ताप्रकारमाह---यावदिति ॥ ५२ ॥ यदि पूर्वमेव संपातिवचनप्रामाण्येन रामोत्रानीयेत तदा महान्प्रमादः स्यादित्याह---संपातीति ॥ ५३-५६ ॥ सिद्धिं तपःफलं ॥ ५७-५८॥ "सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः" इत्युक्तरीत्या अभिममतलाभत्वरया सर्वान्नमस्करोति---नमोस्त्विति ॥ ५९ ॥ स तेभ्यस्त्वित्यादिश्लोकद्वयमेकान्वयं ॥ नमस्कृत्यालोकनरूपक्रियाभेदात्तच्छब्दद्वयं । नमस्कृत्य अशोकव- |
निकां प्रति उद्दिश्य सर्वा दिशस्समालोक्य अशोकवनिकां परिच्छेत्तुं तस्यास्सर्वा दिशो दृष्ट्वा तां स मनसा गत्वा उत्तरं चिन्तयामासेति योजना । अशोकशब्दः संक्षेपेव्याख्यातः ॥ ६०-६१ ॥ रक्षोबहुला रक्षकराक्षसबहुला । वनाकुला जलावृता द्रुमषण्डमण्डिता वा । सर्वसंस्कारैः कर्षणतृणनिरसनादिभिः संस्कृता कृतातिशयाधाना । अशोकवनिका ध्रुवं ... भविष्यति । अवश्यमन्वेषणीया भवेदित्यर्थः ॥ ...२ ॥ अत्र अशोकवनिकायां । विहिताः नियुक्ताः । स ... सर्वमाप्नोतीति सर्वात्मा वायुः । सोपि ना... प्रवाति । अतिकम्पनपूर्वकं नात्र संचरतीत्यर्थः ॥ ... ॥ |
जीवितेनसंगमः श्रेयः श्रेयस्साधनं ॥ ४७ ॥ ति० चिन्तया विग्रथितानि संबद्धानि व्याकुलानि इन्द्रियाणियस्यसः ॥ ... ती० सुग्रीवायचेत्यत्र नमश्चक्रइति करोतेर्विपरिणामः । अशोकवनिकांगतः मनसेतिशेषः ॥ अशोकवनिकांप्रतीतिपाठे ... लोकयदित्यालोकयतेर्विपरिणामः । अन्यथा तच्छब्दोतिरिच्यते ॥ ति० स्वामिवात्सूर्यांशत्वाच्च सुग्रीवनतिः ॥ ति० ...
- ↑ क. ग. ङ. च. झ. ञ. ट. चिन्तासमापन्नः.
- ↑ क. ख. ङ. झ. ञ. ट. त्सीतांन. ग. च. छ. ज. ...
- ↑ क.---ट. चापिमहतीयंमहाद्रुमा.
- ↑ ख. इमामभि.
- ↑ क. ग.---ट. वसून्रुद्रान्.
- ↑ क. ञ. मरुतोपिवा. ...
- ↑ ग.---ट. राक्षसान्देवीमिक्ष्वाकु.
- ↑ घ.---ट. सिद्धीमिव. क. स्वसिद्धिमिवयोगिने.
- ↑ क. ग. चिन्तयाग्रथिते. ख. ... चिन्ताविग्रथिते.
- ↑ क. ग. ङ.---ट. न्महाबाहुः.
- ↑ ग. घ. नमश्च.
- ↑ ङ. झ. ञ. ट. चन्द्राग्नि.
- ↑ ग. इति... ऽञ्जलिंकृत्वा. क. इतितेभ्यो. ञ. सतुतेभ्यो.
- ↑ क. ख. ङ.---झ. ट. नमस्कृत्वा.
- ↑ च. छ. ज. ञ. सोशोकवनिकांगत... ख. घ. ङ. झ. ट. सोशोकवनिकांप्रति.
- ↑ ङ.---ट. पुण्या.
- ↑ ङ.---ट. विश्वात्मा.
- ↑ घ. ञ. ट. प्रवात्यसौ... ख. झ. प्रवायति.