सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १३]
६१
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

उपविष्टस्य वा []सम्यग्लिङ्गिनीं साधयिष्यतः ॥ शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ॥ ४२ ॥
[]इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः ॥ सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ॥ ४३ ॥
सुजातमूला सुभगा कीर्तिमाला यशस्विनी ॥ प्रभग्ना []चिररात्रीयं मम सीतामपश्यतः ॥ ४४ ॥
तापसो वा भविष्यामि नियतो वृक्षमूलिकः ॥ []नेतः प्रतिगमिष्यामि []तामदृष्ट्वाऽसितेक्षणाम् ॥ ४५ ॥
[]यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ॥ अङ्गदः []सह तैः सर्वैर्वानरैर्नभविष्यति ॥ ४६ ॥
विनाशे बहवो दोषा []जीवन्भद्राणि पश्यति ॥ तस्मात्[]प्राणान्धरिष्यामि [१०]ध्रुवो जीवितसंगमः ॥ ४७ ॥
एवं बहुविधं दुःखं मनसा [११]धारयन्मुहुः ॥ नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ॥ ४८ ॥
[ [१२]ततो विक्रममासाद्य धैर्यवान्कपिकुञ्जरः॥ ] रावणं वा वधिष्यामि दशग्रीवं महाबलम् ॥
[१३]काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥ ४९ ॥
[१४]अथ वैनं समुत्क्षिप्य उपर्युपरि सागरम् ॥ रामायोपहरिष्यामि पशुं पशुपतेरिव ॥ ५० ॥


पकथनं । अरणीसुतं अरण्युत्पन्नं ॥ ४१ ॥ उपविष्टस्य प्रायोपविष्टस्य । लिङ्गिनीं लिङ्गं संन्यासः अनशनं तद्वती लिङ्गिनी तां । साधयिष्यतः । लिङ्गिनमिति क्वचित्पाठः । तत्र लिङ्गं शरीरं तद्वान् लिङ्गी आत्मा तं साधयिष्यतः । शरीरादात्मानं मोचयिष्यत इत्यर्थः । श्वापदानि श्वापदाः व्याघ्रादयः ॥ ४२ ॥ न चैवमात्मत्यागे दोष इत्याह---इदमिति । निर्याणं मारणं । आपः अपः ॥ ४३ ॥ सुजातमूला । आदौ लङ्काधिदेवताजयेन शोभनप्रारम्भा । सुभगा चन्द्रोदयेन रम्या । कीर्तिमाला मम कीर्तिमयमाला । यशस्विनी हनुमतो लङ्काप्रवेशरात्रिरिति लोके विख्या-

ता । चिररात्री जागरणेन दीर्घभूता रात्रिः । प्रभग्ना समाप्ता । एवं कल्याणीयं रात्रिः सीतामपश्यतो मे व्यर्थैव जातेत्यर्थः । "कृदिकारादक्तिन" इति दीर्घः ॥ ४४ ॥ आत्मत्यागापेक्षया तापसभाव एव ज्यायानित्याह---तापस इति ॥ वाशब्दोऽवधारणे । "वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये" इतिविश्वः ॥ ४५ ॥ मा भूत्सुग्रीवसमीपगमनं अङ्गदादिभिस्संयुज्यतामित्याशङ्क्याह---यदीत इति ॥ ४६॥ बहवो दोषाः पूर्वोक्तास्सर्वविनाशादयः । संगमः श्रेयस्संगमः ॥ ४७-४८ ॥ प्रत्याचीर्णं प्रत्याचरितं प्रतिकृतमिति यावत् ॥ ४९ ॥ पशुं पशुपतेरिवेति पशुपतेः अग्नेः ।


... ॥ ४० ॥ ति० लिङ्गिनीमितिपाठे प्राणलिङ्गिनींचितिंचैतन्यमित्यर्थः ॥ स० लिङ्गिनंसाधयिष्यतः केवललिङ्गदेहवि...मानंकुर्वतः स्थूलदेहंत्यजतइतियावत् ॥ ४२ ॥ ति० सीतामपश्यतोमम यशस्विनी यशस्संपादिका । मृतस्यख्याति...सुजातमूला सुजातकारणवती । कीर्तिरूपामाला । जीवतःसा कीर्तिः । चिररात्रायेत्यव्ययं । चिरायेत्यर्थः । चिरायभन्ना ...तकलयंगतेत्यर्थः ॥ ती० सुभगा सीतान्वेषणसौकर्यापादकचन्द्रिकयामनोहरा । कीर्तिमाला कीर्तनंकीर्तिः सीतान्वेषण...ति सर्वत्रक्रियमाणाकीर्तिरेव मालायस्यास्सा । यशस्विनी हनुमल्लङ्काप्रवेशरात्रिरिति ख्यातिमती । चिररात्रिः चिर...शिष्टारात्रिः । दीर्घरात्रिरितियावत् । अनेन रामकार्यसहायेच्छया रात्रिरपिवर्धितवतीत्यवगम्यते ॥ शि० चिररात्राय ...सीतामपश्यतोमम सुजातमूला सुजातं रामसुग्रीवसंबन्धहेतुकवार्ताहरत्वेननिष्पन्नं मूलंयस्यास्सा । सुभगा शोभनैश्वर्य... यशस्विनी मुद्रिकादानोपलक्षितरामप्रीतिपात्रत्वहेतुकातियशोविशिष्टाकीर्तिमाला प्रभग्ना । अतः तापसः विचारपरः ...मि । तांसीतामदृष्ट्वा इतोनप्रतिगमिष्यामि ॥ श्लोकद्वयमेकान्वयि ॥ स० सुजातमूला सद्वंशप्रभवा सुभगा सुन्दरी यशस्विनी ... तांचिररात्राय बहुकालमपश्यतोममकीर्तिमालाप्रभग्ना ॥ ४४ ॥ ति० एवमगमनेनिश्चिते मरणजीवितयोःकिंश्रेयस्त...विनाशइति । दोषाबहवःप्रागुक्ताः । चिरंमदगमने सीताविनाशनिश्चयेन रामादयोनस्युरेव । आत्मघातादयश्च । जी...मात्मा भद्रकंप्राप्नोति वक्ष्यमाणनानाविधोपायाश्रयणेन । तस्मात्प्राणान्धरिष्यामि । यतोमयिजीवतिसति संगमः रामा...वः संभावितइत्यर्थः । काव्यलिङ्गमत्रालङ्कारः ॥ तीर्थस्तु अत्रजीवितसंगमइतिपाठंकल्पयामास । स० जीवितसंगमः

  1. ख. छ.---ञ. सम्यग्लिङ्गिनं.
  2. क. ग.---ट. इदमप्यृषिभिर्दृष्टं.
  3. झ. ञ. ट. चिररात्राय.
  4. क. च. छ. ज. ...प्रति.
  5. च. छ. ज. ञ. मदृष्ट्वायतेक्षणां.
  6. क. ग. ङ.---ञ. यदितुप्रति. घ. यदिप्रतिगमिष्यामि.
  7. ग. ङ. झ. ञ. ट. ...इतस्सर्वैः. के. घ. च. छ. ज. सहितैः.
  8. ङ. झ. ञ. ट. जीवन्प्राप्नोतिभद्रकं.
  9. ग. घ. च. छ. ज. त्प्राणान्हिरक्ष्यांमो.
  10. ... ख. झ. ञ. ट. ध्रुवोजीवति. क. ध्रुवंजीवति. ठ. श्रेयोजीवितसंगमः.
  11. ङ. झ. ट. धारयन्बहु.
  12. इदमर्धं ङ.---ट. ...पाठेषुदृश्यते.
  13. क. घ. च. छ. ज. ञ. रामपत्नीहृतायेनप्रत्याचीर्णं.
  14. ख. घ. ञ. अथचैनं.