पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १३ ]
५९
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

अथवा हियमाणायाः पथि सिद्धनिषेविते ॥ मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥ ८ ॥
रावणस्योरुवेगेन भुजाभ्यां [१]पीडितेन च ॥ तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ ९ ॥
उपर्युपरि वा नूनं सागरं क्रमतस्तथा ॥ विवेष्टमाना पतिता समुद्रे जनकात्मजा ॥ १० ॥
अहो क्षुद्रेण [२]वाऽनेन रक्षन्ती शीलमात्मनः ॥ अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥ ११ ॥
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ॥ अदुष्टा दुष्टभावाभिर्[३]भक्षिता सा भविष्यति ॥ १२ ॥
संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ॥ रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥ १३ ॥
हा राम लक्ष्मणेत्येवं हायोध्ये चेति [४]मैथिली ॥ विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ १४ ॥
[५]अथवा निहिता मन्ये रावणस्य निवेशने ॥ [६]नूनं [७]लालप्यते सीता पञ्जरस्थेव शारिका ॥ १५ ॥
जनकस्य [८]सुता सीता रामपत्नी [९]सुमध्यमा ॥ कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥ १६ ॥
विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा ॥ रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥ १७ ॥
निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने ॥ कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ १८ ॥
अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम् ॥ भवेदिति [१०]मतं भूयो हनुमान्[११]प्रविचारयत् ॥ १९ ॥
यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः ॥ गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ २० ॥
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति ॥ [१२]प्रवेशश्चैव [१३]लङ्काया राक्षसानां च दर्शनम् ॥ २१ ॥


रामबाणेभ्यः ॥ ७ ॥ सागरं प्रेक्ष्य भीतं हृदयं सागरे पतितमिति मन्ये । हृदयस्य भयस्थानत्वेन तन्मूलतया तच्छरीरं लक्ष्यते ॥ ८ ॥ पीडितेन पीडनेन ॥ ९ ॥ उपर्युपरि सागरं सागरस्य सन्निहितोपरिप्रदेशे । "उपर्यध्यधसस्सामीप्ये" इति द्विर्वचनं । "धिगुपर्यादिषु त्रिषु" इति द्वितीया ॥ १० ॥ ...ति खेदे ॥ ११ ॥ दुष्टभावाभिः सापत्न्यप्रयु... ॥ १२-१३ ॥ न्यस्तदेहा त्यक्तदेहा । ...ति भवेदित्यर्थः ॥ १४ ॥ निहिता भूगृहादौ गूढं ... । लालप्यते मुहुर्मुहुः प्रलपति ॥ १५ ॥ एवं ...मानापि सीता रावणस्य वशं न व्रजेदित्याह---...ते ॥ कथं व्रजेत् । न व्रजेदेवेत्यर्थः ॥ १६ ॥

ननु किं चिन्तया गत्वा यथावृत्तं निवेद्यतामित्याशङ्क्य तदनुचितमित्याह---विनष्टेति ॥ विनष्टा भूगृहादौ स्थापनेनादर्शनं गता । "णश अदर्शने" इति धातोर्निष्ठा । प्रणष्टा समुद्रपतनादिना त्यक्तजीविता । "उपसर्गादसमासेपि णोपदेशस्य" इति णत्वं । मृता रामविरहदुःखासहिष्णुतया स्वयं मृता ॥ १७ ॥ निवेद्यमाने वक्ष्यमाणो दोषः स्यात् । दोषः स्यादनिवेदने । यथावृत्तानिवेदने स्वामिवञ्चनदोषः स्यात् । विषमं परस्परविरुद्धं ॥ १८ ॥ हनुमान् अस्मिन्कार्ये एवंगते एवं विषमत्वं प्राप्ते सति । किंप्राप्तकालं कालोचितं । क्षमं समर्थं च भवेदिति मतं पक्षं । भूयः प्रविचारयत् ॥ १९-२० ॥ पुरुषार्थाभाव-


...सायुक्ततिज्ञेयं ॥ ७ ॥ ति० रामपरोक्षंतथाभयायोगात्पक्षान्तरं---अथवेति । हृदयंपतितं मनउत्क्रान्तं । मनउत्क्रमणस्यैव ...त् ॥ ८ ॥ स० अबन्धुःअसंनिहितबन्धुः ॥ ११ ॥ स० रिपुभिर्योधयितुंशक्योयोध्यः । सनभवतीत्ययोध्यः । तस्य ...। हायोध्येत्युपपन्नं ॥ १४ ॥ ति० नन्वनेनविचारेणालं यथानुभूतंनिवेद्यतां तत्राह---विनष्टेति । अस्यक्वचिद्वर्ततइतिशेषः । ...दर्शने' इतिधात्वनुसाराददृष्टासतीक्वचिदस्तीतिवक्तुं अशक्यं अक्षमं । सर्वतोन्विष्टत्वात् प्रणष्टा प्रगतंनष्टंअदर्शनंयस्यास्सा ...। एतदपिनवक्तुंक्षमं । स्वयमदृष्टत्वात् ॥ एवंमृतेत्यपिवक्तुंनशक्यं । तत्साधकदृढतरप्रमाणाभावात् । तस्माद्रामस्या- ...पिवक्तुंनशक्यं । दृश्यदेशेमाययाऽदर्शनंविनाशः । अदृश्यदेशेऽवस्थापनंप्रणाशइतितुतीर्थः ॥ १७ ॥ ति० प्राप्तकालं

  1. क. ख. ङ. पीडनेनच.
  2. ग. पापेन.
  3. क. झ. ट. भक्षितावा.
  4. ङ. ञ. ट. भामिनी.
  5. ज. रहो...नहिता.
  6. ङ. झ. ट. भृशं.
  7. ङ. झ. ट. लालप्यतेबाला. क. घ. च. छ. ञ. लालप्यतेमन्दं. ग. विलपतेमन्दं.
  8. क. ...ङ.---ट. कुलेजाता.
  9. च. छ. ज. सुधार्मिका.
  10. ग. ङ.---ट. मतिं.
  11. ग. ङ. ज. झ. ञ. न्प्रविचारयन्. ... न्विवचारह. क. न्प्रव्यचारयत्.
  12. च. छ. ज. प्रवेशश्चापि.
  13. क. ञ. लङ्कायां.