पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ११ ]
५५
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ॥ इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥ ३६ ॥
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी ॥ अयं चात्र मया दृष्टः परदारपरिग्रहः ॥ ३७ ॥
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः ॥ निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥ ३८ ॥
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः ॥ [१]न हि मे मनसः किंचिद्वैकृत्यमुपपद्यते ॥ ३९ ॥
मनो हि हेतुः[२] सर्वेषामिन्द्रियाणां प्रवर्तने ॥ शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ ४० ॥
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥ स्त्रियो हि स्त्रीषु दृश्यन्ते [३]सदा संपरिमार्गणे ॥ ४१ ॥
यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते ॥ न [४]शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥ ४२ ॥
तदिदं मार्गितं तावच्छुद्धेन मनसा मया ॥ रावणान्तःपुरं सर्वं दृश्यते [५]न च जानकी ॥ ४३ ॥
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् ॥ अवेक्षमाणो हनुमान्नैवा[६]पश्यत जानकीम् ॥ ४४ ॥
तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः ॥ अपक्रम्य तदा वीरः [७]प्रध्यातुमुपचक्रमे ॥ ४५ ॥
[८]भूयस्तु परं श्रीमान्मारुतिर्यत्नमास्थितः ॥ [९]आपानभूमिमुत्सृज्य [१०]तद्विचेतुं प्रचक्रमे ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकादशः सर्गः ॥ ११ ॥



च्छङ्कितः ॥ ३५ ॥ परदारावरोधस्य परदाररूपान्तः... ॥ ३६ ॥ मे दृष्टिः कदाचिदपि परदाराणां ...वर्तिनी नहि । परदारसंबन्धिविषयपरा नही... तथाप्ययं परदारपरिग्रहः दृष्ट: इदमसङ्गत... ॥ ३७ ॥ निश्चितैकान्तचित्तस्य नियतैकरू... स्य ॥ ३८ ॥ वैकृत्यं विकारः । उपपद्यते ....ते ॥ ३९ ॥ शुभाशुभास्ववस्थासु शुभकरणाशु...णेषु विषये । इन्द्रियाणां प्रवर्तने मन एव हेतुः ...स्थितं न तदभिलाषि जातमित्यर्थः ॥ ४० ॥

ननु परदारदर्शनमपि परिहरणीयं तत्किमर्थं कृतं तत्राह---नान्यत्रेति ॥ अन्यत्र स्त्रीव्यतिरिक्ते । संपरिमार्गणे कर्तव्ये स्त्रीष्वेव हि स्त्रियो दृश्यन्ते ॥ ४१ ॥ योनिः जातिः । सजातीयइत्यर्थः ॥ ४२-४३ ॥ अपश्यत अपश्यत् ॥ ४४-४५ ॥ तत् रावणान्तःपुरं ॥ ४६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥



... धर्मलोपंदर्शयति---परदारेति । परदारावरोधस्य । दारशब्दःस्त्रीसामान्यवाची । अवरोधशब्दःस्वधर्मयुक्तकुलस्त्रीवाची । ... । अनेननग्नप्रायत्वंसूचितं । तत्समयेवसनानांविपर्यासात् । किंचपरदाराएवपरिग्रहो भार्यायस्यसःअतिपापीरावणश्चदृष्टः । ...दर्शनमपिधर्मलोपकारीतिभावः ॥ ३७ ॥ ति० अथपुनर्विचारेणतदलोपबुद्धिरप्युत्पन्नेत्याह---तस्येति । अन्याचिन्ता ...न्ताविरोधिनी । निश्चितेप्रमाणप्रतिपन्ने । एकान्तेसिद्धान्तेतद्विषयज्ञानेचित्तं । अतएवसाचिन्ताकार्यनिश्चयदर्शिनी ...कर्तव्यनिर्णयसमर्था ॥ ८ ॥ इत्येकादशः सर्गः ॥ ११ ॥

  1. क. ग. घ. च. ज.---ट. नतु.
  2. घ. मूलं.
  3. च. छ. स्त्रियाःसंपरिमार्गणे.
  4. ख. ङ.---ट. शक्यं.
  5. ग. ... च. छ. ज. नात्र. ख. नापि.
  6. क. त्रैवपश्यति.
  7. ख. ग. ङ.---ट. प्रस्थातुं.
  8. ङ. छ.---ट. भूयस्सर्वतःश्रीमान्. ... भूयस्तांपुरींश्रीमान्. घ. ज. भूयस्तत्परःश्रीमान्.
  9. च. छ. ज. पानभूमिंसमुत्सृज्यविचेतुंचप्रचक्रमे.
  10. क. ग. घ. झ. ञ. ट. तांविचेतुं.