पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामयणम् ।

राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ॥ [१]पानिश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श सः ॥ २२ ॥
सोपश्यच्छातकुम्भानि शीधोर्मणिमयानि च ॥ [२]राजतानि च पूर्णानि भाजनानि महाकपिः ॥ २३ ॥
[३]क्वचिदर्धावशेषाणि क्वचित्[४]पीतानि सर्वशः ॥ क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥ २४ ॥
क्वचिद्भक्ष्यांश्च विविधान्क्वचित्[५]पानानि भागशः ॥ क्वचि[६]दन्नावशेषाणि पश्यन्वै विचचार ह ॥ २५ ॥
क्वचित्प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः ॥ क्वचित्संपृक्तमाल्यानि जलानि च फलानि च ॥ २६ ॥
शयनान्यत्र नारीणां शु[७]भ्राणि बहुधा पुनः ॥ परस्परं समाश्लिष्य [८]काश्चित्सुप्ता वराङ्गनाः ॥ २७ ॥
[९]काचिच्च वस्त्रमन्यस्याः [१०]स्वपन्त्याः परिधाय च ॥ [११]आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः ॥ २८ ॥
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् ॥ नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ॥ २९ ॥
चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च ॥ विविधस्य च माल्यस्य [१२]धूपस्य विविधस्य च ।
बहुधा [१३]मारुतस्तत्र गन्धं विविधमुद्वहन् ॥ ३० ॥
[१४]रसानां चन्दनानां च धूपानां चैव मूर्छितः ॥ प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ॥ ३१ ॥
श्यामा वदातास्[१५]तत्रान्याः काश्चित्कृष्णा वराङ्गनाः ॥ काश्चित्काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये ॥ ३२ ॥
तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम् ॥ पद्मिनीनां प्रसुप्तानां [१६]रूपमासीद्यथैव हि ॥ ३३ ॥
एवं सर्वमशेषेण रावणान्तःपुरं कपिः ॥ ददर्श [१७]सुमहातेजा न ददर्श च जानकीम् ॥ ३४ ॥
निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः ॥ जगाम महतीं [१८]चिन्तां धर्मसाध्वसशङ्कितः ॥ ३५ ॥


भाजनैस्संतता जाम्बूनदमयैरन्यैः करकैश्चाभिसंवृता भूमिः शुशुभ इति संबन्धः ॥ २१-२२ ॥ शीधोः मद्यस्य ॥ २३ ॥ पानानि पानपात्राणि ॥ २४ ॥ क्वचिद्भक्ष्यानित्यादिनिद्राबलपराजिता इत्यन्तमेकं वाक्यं ॥ क्वचित्प्रभिन्नैरित्यादिषु सहयोगे तृतीया हेतौतृतीया वा । प्रभिन्नत्वादालोलितत्वाच्च संपृक्तमाल्यानि माल्यमिश्राणीत्यर्थः । परस्परमित्यादि पश्यन्वै विचचारेति पूर्वेणान्वयः ॥ २५-२८ ॥ गात्रजं

गात्रस्थं । मन्दमनिलं प्राप्येव अत्यर्थं न स्पन्दत इत्यन्वयः ॥ २९ ॥ चन्दनस्येत्यादि उद्वहन् प्रववावित्यपकृष्यते ॥ ३० ॥ रसादीनां सुरभिर्गन्धः विमाने मूच्छितःव्याप्तः सन् प्रववौ चचार ॥ ३१ ॥ वदाताः अवदाताः । भागुरिमतेनाल्लोपः । शुभ्रा इत्यर्थः--- ॥ ३२ ॥ चकारोप्यर्थकः । निद्रापरवशानामपि ... रूपं प्रसुप्तानां पद्मिनीनां रूपमिव रम्यमासीद... ॥ ३३-३४ ॥ धर्मसाध्वसशङ्कितः धर्मलोपनैः...


द्वीकागोस्तनीद्राक्षा' इत्यमरः ॥ शि० दिव्याःवृक्षकोटरादिद्वारावरुणादिप्रेषिताःसुराः ॥ १९ ॥ ति० शन्यानि पतिशून्य... अतएवपरस्परंसमाश्लिष्येति ॥ २७ ॥ ति० अपहृत्य बलाद्गृहीत्वा । उपगुह्य प्रावृत्य । उपगम्य तच्छयनस्थानंप्राप्य । ... पश्यन्विचचारेतिसंबन्धः ॥ २८ ॥ रामानु० चन्दनस्य अनुलेपनचन्दनस्य । धूपस्य गृहाधिवासार्थधूपस्य । स्नानानांचन्द... स्नानार्हचन्दनानां । धूपानां केशाधिवासधूपानां । मारुतःएतेषांविविधंगन्धमुद्वहन्प्रववौ । अतएवसुरभिः घ्राणतर्पणः ग... विमानेपुष्पके । मूर्ञ्छितःव्याप्तइतिसंबन्धः ॥ ३१ ॥ ति० ततोनिरीक्षणानन्तरं । 'नेक्षेतनग्नांपरस्त्रियं' इतिशास्त्रस्मरणा... शेषः । तदेवाह---धर्मेति । धर्मलोपनिमित्तंयत्साध्वसंभयंतेनशङ्कितःभीतइत्यर्थः ॥ ३५ ॥

  1. क. ङ. झ. ञ. ट. पानश्रेष्ठांतथाभूमिं.
  2. ञ. तानितानिच.
  3. ख. क्वचिदल्पावशेषाणि.
  4. ङ. झ.... त्पीतान्यशेषतः.
  5. ङ. झ. ट. त्पानंविभागतः. ञ. त्पानंविभागशः. च. छ. ज. त्पानानिसर्वशः.
  6. ख. ङ.---ट. क्वचि... वशेषाणि.
  7. क.---ट. शून्यानि.
  8. क. सुप्ताःपुनःपुनः.
  9. ङ. च. छ. झ. ञ. ट. काचिच्चवस्त्रमन्यस्याअपहृत्योपगु... उपगम्याबलासुप्तानिद्राबलपराजिता.
  10. ग. घ. अपहृत्योपगूह्यतां.
  11. ग. ज. उपगम्याबलाः.
  12. क. ग. ङ. झ. ञ.... पुष्पस्य.
  13. क. ड.---ट. मारुतस्तस्य.
  14. ट. रसानांचधनानांच. क. ख. ग. ङ.---ञ. स्नानानांचन्दनानांच. ग. पानानं... चन्दनानांच.
  15. क. स्तास्तत्र.
  16. क. मासीत्तदद्भुतं.
  17. ख. ङ. झ. ञ. ट . समहातेजाः. ग. चमहातेजाः. च. ... सुमहावीरः.
  18. क. ख. ङ. झ. ञ. ट. शङ्कां.