पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ११ ]
५३
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

[१]क्रकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान् ॥ [२]महिषानेक शल्यांश्च [३]च्छागांश्च कृतनिष्ठितान् ॥
लेह्यानुच्चावचान्पेयान्[४]भोज्यानि विविधानि च ॥ १४ ॥
तथाम्ललवणोत्तंसैर्विविधै रागषाडबैः ॥ हारनूपुरकेयूरैरपविद्वैर्महाधनैः ॥ १५ ॥
पानभाजनविक्षिप्तैः [५]फलैश्च विविधैरपि ॥ कृतपुष्पोपहारा भूर[६]धिकं पुष्यति श्रियम् ॥ १६ ॥
[७]तत्रतत्र च विन्यस्तैः [८]सुश्लिष्टैः शयनासनैः ॥ पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ॥ १७ ॥
बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ॥ मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् ॥
दिव्याः प्रसन्ना विविधाः सुराः [९]कृतसुरा अपि ॥ शर्करासव[१०]माध्वीकपुष्पासवफलासवाः ॥ १९ ॥
[११]वासचूर्णैश्च विविधैर्दृष्टास्तैस्तैः पृथक्पृथक् ॥ सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ॥ २० ॥
हिरण्मयैश्च [१२]विविधैर्भाजनैः स्फाटिकैरपि ॥ जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ॥


यूपस्याग्रचरं तथा । रक्तवर्णं च राजेन्द्र च्छागं वार्घ्राणसं विदुः" इति स्मृतेः ॥ पक्षिविशेषइत्यन्ये । खङ्गमृगइत्यपरे । "वार्घ्राणसः खङ्गमृगः" इतिहलायुधः । दधिसौवर्चलायुतान् दधिसौवर्चलाभ्यांसंस्कृतानित्यर्थः । सौवर्चलं रुचकाख्योलवणविशेषः । "सौवर्चलेक्षरुचके" इत्यमरः । शल्यान् श्वाविधः । "श्वावित्तुशल्यः" इत्यमरः । मृगमयूरादीनां पुनःकथनं प्रदेशभेदात् ॥ १३ ॥ क्रकरान् पक्षिविशेषान् । "कृकणक्रकरौ समौ" इत्यमरः । सिद्धान् पक्वान् । एकशल्यान् मत्स्यविशेषान् । कृतनिष्ठितान् पर्याप्तप... । "युगपर्याप्तयोः कृतं" इत्यमरः ॥ १४ ॥ आम्लल... सै: आम्लप्रधानैः लवणप्रधानैश्च । रागषाडबैः ...क्तैः षाडबैः । रागः श्वेतसर्षपः । "रागस्सिद्धा..." इतिसूदशास्त्रं । षाडबाः षड्रससंयोग...त्यविशेषाः । प्रदीपे त्वन्यथोक्तं "सिताम...धुरो द्राक्षादाडिमजो रसः । विरलश्चेत्कृतो ...सीन्द्रश्चेत्षाडबः स्मृतः" इति ॥ १५-१७ ॥

कुशलसंयुक्तैः समर्थसूदसंयोजितैः । एवंभूतैः मांसैः सह दृष्ट्वा इति वक्ष्यमाणेनान्वयः ॥ १८ ॥ दिव्याः अमृतमथनोद्भूतवारुणीजातीयाः । प्रसन्नाः निष्कल्मषाः । कृतसुराः कृत्रिमसुराः । कृत्रिमसुरा एवाह---शर्करेति । शर्करासवाः शर्करया कृताः । माध्वीकाः मधुना कृताः । पुष्पासवाः पुष्पमकरन्दकृताः । फलासवाः फलरसकृताः । तथोक्तमर्णवे---"पानकं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् । मधूत्थं शीधुमाध्वीकं मैरेयं नारिकेलजं" इति ॥ १९ ॥ वासचूर्णैः अधिवासचूर्णैः सह दृष्टाः हनुमतेतिशेषः । बहुप्रकारैर्मांसैः सह सुराः वासचूर्णैः सह हनुमता तत्र पानभूमौ दृष्टा इति संबन्धः । तैस्तैरित्याद्युत्तरशेषः । तैस्तैर्मांसविशेषैस्सुराविशेषैर्वासचूर्णैश् पृथक्पृथक् संततेति संबन्धः । बहुसंस्थितैः बहुसंस्थानैः ॥ २० ॥ हिरण्मयैरिति अत्रापि संततेति पूर्वेणान्वयः । हिरण्मयैः रजतमयैः । "कृताकृतं हेमरूप्यं हिरण्यमभिधीयते" इति वचनात् । तैस्तैः पृथक्पृथक् संतता बहुसंस्थितैर्माल्यैर्हिरण्मयैः स्फाटिकैरपि


...धर्मोक्तेः । छागविशेषोवा 'त्रिपिबंत्विन्द्रियक्षीणंश्वेतंवृद्धमजापतिं । वार्घ्राणसंचतंप्राहुर्याज्ञिकाःश्राद्धकर्मणि' इतिस्मर... त्रिपिबं पानकालेमुखपर्यन्तंकर्णयोर्लंबमानत्वात् त्रिभिः मुखेनकर्णाभ्यांचपिबतीतित्रिपिबं । खङ्गमृगोवा । 'वार्घ्रा... मृग' इतिहलायुधः ॥ १३ ॥ ती० कृसरानितिपाठेतिलादिमिश्रितौदनान् ॥ १४ ॥ स० संयुक्तैःसम्यग्रचितैः । दातृ...युक्तैरितिवा । 'पर्याप्तिक्षेमपुण्येषुकुशलंशिक्षितेत्रिषु' इत्यमरः ॥ दिव्याःमनोहराः । प्रसन्नाःदर्शनमात्रेपिपासाज... सुराः स्वतएवसमुद्राद्युत्पन्नाः । कृतसुराःमादकरसैर्नूतनतयाकृताः ॥ ती० मार्द्वीकाइतिपाठे द्राक्षाफलविकारा । 'मृ-

  1. ङ. झ. ट. कृकलान्विविधाञ्छागान्शकानर्ध. च. छ. ज. क्रकरान्विविधाञ्छागान्.
  2. छ. ज. ञ. ...षांश्चानेक.
  3. ङ. झ. ट. छेदाश्च.
  4. ङ. झ. ञ. ट. भोज्यान्युञ्चावचानिच.
  5. च. छ. ज. विमलैर्विविधैरपि.
  6. ङ. ज.---ट. ...धिकां.
  7. क. ख. ततस्तत्र.
  8. ग. संश्लिष्टैः. झ. ञ. सुश्लिष्टशयनासनैः.
  9. च. छ. ज. कृतसुरास्तथा.
  10. क. घ.---ट. ...वीकाः.
  11. क. वासचूर्णाश्वविविधाः.
  12. ङ. झ. ञ. ट. कलशैर्भाजनैः. च. छ. ज. सुकृतैःकरकैः. क.---घ. करकैर्भाजनैः.