पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ॥ न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम् ॥
नान्यं [१]नरमुपस्थातुं [२]सुराणामपि चेश्वरम् ॥ २ ॥
न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ॥ अन्येयमिति निश्चित्य [३]पानभूमौ चचार सः ॥ ३ ॥
क्रीडितेनापराः क्लान्ता गीतेन च तथा पराः ॥ नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा ॥ ४ ॥
[४]मुरवेषु मृदङ्गेषु [५]पीठिकासु च संस्थिताः ॥ [६]तथास्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः ॥ ५ ॥
अङ्गनानां सहस्रेण भूषितेन विभूषणैः ॥ रूपसँल्लापशीलेन युक्तगीतार्थभाषिणा ॥ ६ ॥
देश[७]कालाभियुक्तेन युक्तवाक्याभिधायिना ॥ [८]रताभिरतसंसुप्तं ददर्श हरियूथपः ॥ ७ ॥
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः ॥ गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ॥ ८ ॥
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ॥ करेणुभिर्यथाऽरण्ये परिकीर्णो महाद्विपः ॥ ९ ॥
सर्वकामैरुपेतां च पानभूमिं महात्मनः ॥ ददर्श हरिशार्दूलस्तस्य रक्षःपतेर्गृहे ॥ १० ॥
मृगाणां महिषाणां च वराहाणां च भागशः ॥ [९]तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ॥ ११ ॥
रौक्मेषु च विशालेषु [१०]भाजनेष्वर्धभक्षितान् ॥ ददर्श हरिशार्दूलो मयूरान्कुक्कुटांस्तथा ॥ १२ ॥
[११]वराहवार्ध्राणसकान्दधिसौवर्चलायुतान् ॥ [१२]शल्यान्मृगमयूरांश्च हनुमानन्ववैक्षत ॥ १३ ॥


स्वस्थचित्तो बभूव ॥ १-२ ॥ त्रिदशेष्वपीत्यनन्तरं अन्येयमित्यर्धं । पानभूमौ ततोन्यत्रेत्यर्थः ॥ ३ ॥ क्रीडितेनेत्याद्यपराः स्त्रिय इत्यन्तमेकं वाक्यं । ददर्शेत्यनुषज्यते । क्रीडितेन क्रीडया । भावे निष्ठा । विप्रहताः क्लान्ता इत्यर्थः ॥ ४ ॥ संस्थिताः उपधानीकृत्य शयिताः । संविष्टाः सुप्ताः ॥ ५ ॥ तत्र सीताया अदर्शनात्पुनरपि रावणस्थानमागत्य ददर्शेत्याह---अङ्गनानामिति ॥ रूपसँल्लापशीलेन स्वसौन्दर्यवर्णनशीलेन । रावणविषयरूपप्रशंसाशीलेन वा।युक्तगीतार्थभाषिणा युक्तं उपपन्नं गीतार्थं भाषितुं शीलमस्येति युक्तगी-

तार्थभाषी तेन । देशकालाभियुक्तेन देशकालाभिज्ञेनेत्यर्थः । अङ्गनानां सहस्रेण रताभिरतसंसुप्तमित्यन्वयः । रतशब्देन बाह्यसुरतमुच्यते । अभिरतशब्देन करणबन्धादिकमुच्यते । रताभिरतश्चासौ संसुप्तश्च तं तथा । स्नातानुलिप्तादिवत्समासः । क्रीडाखेदेन सुप्तमित्यर्थः । रावणमिति शेषः ॥ ६-८ ॥ परिकीर्णः परिवृतः ॥ ९ ॥ पानभूमेः पुनर्दर्शनोक्तिस्तत्रत्यपदार्थकथनाय ॥ १० ॥ भागशः पिण्डशः ॥ ... मयूरादिशब्दाः मयूरादिविकारमांसपराः ॥ १... वार्घ्राणसाः छागविशेषाः ॥ "त्रिपिबंत्विन्द्रिय...


 रामानु० अत्रपुनरपिपानभूमौ स्त्रीणांरावणस्यचदर्शनाभिधानात्क्षणमन्यत्रान्विष्य विशेषेणमार्गितुं पुन:पानभूम्य.... दृष्टवानित्यवगम्यते ॥ ४ ॥ ती० युक्तगीतार्थभाषिणा युक्तं उपपन्नंयथातथा गीतस्य भरतशास्त्रस्यार्थंभाषितुंशीलमस्ये... तेन । भरतशास्त्रार्थव्याख्यानचतुरेणेत्यर्थः ॥ ६ ॥ रामानु० मयूरान्कुक्कुटानितिस्वरूपेणनिर्देशात्तत्तदाकारविशिष्टतया... इत्यवगम्यते ॥ १२ ॥ ती० वार्घ्राणसःपक्षिविशेषः । 'कृष्णग्रीवोरक्तशिराःश्वतपक्षोविहङ्गमः । सवैवार्घ्राणसःपक्षी' ...

  1. क. रामादुपस्थातुं.
  2. क. ग. नराणामपि.
  3. अ. पानभूमिंददर्शसः. ङ.---झ. ट. भूयस्तत्रचचार... पानभूमौहरिश्रेष्ठःसीतासंदर्शनोत्सुकःइत्यर्धमधिकंचदृश्यते.
  4. ग. ङ. ज.---ट. मुरजेषु.
  5. झ. चेलिकासु.
  6. ख. च. छ.... तदास्तरण. ग. कुथास्तरण.
  7. देशकालाभियुक्तनेत्यर्धानन्तरं क. ग. ङ.---ट. पाठेषु रताधिकेनसंयुक्तां ददर्शहरियूथ... अन्यत्रापिवरस्त्रीणांरूपसँल्लापशायिनाम् । सहस्रंयुवतीनांतुप्रसुप्तसंसददर्शह । देशकालाभियुक्तंतु युक्तवाक्याभिधायि... इतिचत्वार्यर्धानिअधिकानिदृश्यन्ते. एषांतिलकव्याख्यानंचदृश्यते. तथाहि । देशकालाभियुक्तेन तद्विषयपरिज्ञानकु... युक्तवाक्यस्यदेशकालोचितवाक्यस्याभिधानशीलेन । एतत्सर्वं निद्रोद्भ्रमवशादेवबोध्यं । रताधिकेन उत्तमक्रीडावता संयुक्त... भूमिं ददर्श । अन्यत्रापीत्यादिश्लोकद्वयंनव्याःप्रमादान्नपठन्ति । अन्यत्रापि पानभूमिभिन्नेरावणशयनगृहे । बहिस्स्थांपानभू... दृष्ट्वा पुनरभ्यन्तरे शयनस्थानआगत्यान्वेषणं । रूपविषयोयःसँल्लापो वर्णनं तत्पूर्वं शयानानां युवतीनांवरस्त्रीणां सहस्रमुच्यमान गुर्णंददर्श । तत् पूर्वदृष्टं.
  8. क. ङ. झ. ट. रताविरतसंयुक्तं.
  9. ञ. तथा.
  10. झ. ट. भोजनेष्वप्यभक्षितान्. ङ. भोजने ष्वथभक्षितान्.
  11. ङ. झ. ञ. ट. वराहवार्घ्रीणसकान. ज. वराहयूथान्दयितान्. क. ग. वराहगृध्रान्सुकृतान्.
  12. च. छ.... शल्यकान्मृगमायूरान्.