पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ११ ]
५१
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

काचिदाडम्बरं नारी भुजसंभोगपीडितम् ॥ कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥ ४५ ॥
कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी ॥ वसन्ते पुष्पशबला मालेव परिमार्जिता ॥ ४६ ॥
पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ ॥ उपगूह्याबला सुप्ता निद्राबलपराजिता ॥ ४७ ॥
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना ॥ अन्यामालिङ्ग्य सुश्रोणीं प्रसुप्ता मदविह्वला ॥ ४८ ॥
आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः ॥ निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥ ४९ ॥
तासामेकान्तविन्यस्ते शयानां शयने शुभे ॥ ददर्श रूपसंपन्ना[१]मपरां स कपिः स्त्रियम् ॥ ५० ॥
मुक्तामणिसमायुतैर्भूषणैः सुविभूषिताम् ॥ विभूषयन्तीमिव [२]तत्स्वश्रिया भवनोत्तमम् ॥ ५१ ॥
गौरीं [३]कनकवर्णाङ्गीमिष्टामन्तःपुरेश्वरीम् ॥ कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥ ५२ ॥
[४]स तां दृष्टा महाबाहुर्भूषितां मारुतात्मजः ॥ तर्कयामास सीतेति रूपयौवनसंपदा ॥ ५३ ॥
[५]हर्षेण महता युक्तो [६]ननन्द हरियूथपः ॥ [ [७]दृष्टा सीतेति हृष्टोऽभूद्दीनश्चारित्रदर्शनात्] ॥ ५४ ॥

आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम ॥
स्तम्भानरोहन्निपपात भूमौ [८]निदर्शयन्स्वां प्रकृतिं कपीनाम् ॥ ५५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे दशमः सर्गः ॥ १० ॥


एकादशः सर्गः ॥ ११ ॥

युक्तिपर्यालोचनयामन्दोदर्यांसीतात्वबुद्धिविधूननपूर्वकं पानभूमिंगतवताहनुमता परितोरावणं प्रसुप्तानां नानावस्थायुक्तनानास्त्रीणामवलोकनेनसह नानाविधपानपात्राद्यवलोकनं ॥ १ ॥ तथा परदारदर्शनेन स्वस्य दुरिताशङ्कनपूर्वकंपुनः स्वस्य वशीकृतमनस्कत्वादिहेतुभिस्तत्पराकरणं ॥ २ ॥ तथापानभूमौ सीतायाअदर्शने ततोन्यत्र तदन्वेषणोपक्रमः ॥ ३ ॥

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा । जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥ १ ॥


... आसक्तडिण्डिमा आलिङ्गितान्यडिण्डिमा ... रमणमुपगूह्य वत्सं पुत्रं परिगृह्यैव प्रसुप्ता । ...डिण्डिमं परिगृह्य वादनार्थं परिगृह्य । तथैव वाद... एव आसक्तडिण्डिमा अन्या तरुणं वत्समुप... प्रसुप्ता ॥ ४४ ॥ आडम्बरं तूर्यभेदं । भुजसं... पीडितं भुजपरिणाहपीडितं भुजपरिश्लेषपीडितं ... ॥ ४५ ॥ अपविध्य पर्यस्य । अनेन सलिलसंबन्धः ...ते । परिमार्जिता सलिललवसंमार्जिता । अप...कलशनिर्गलितगन्धोदकसिक्ता काचित् । वसन्ते ...निपरिहाराय सलिललवसमुक्षिता मालेव बभावि... । पुष्पशबलेत्यनेन कलशस्थजलस्य कुङ्कुमादिर...क्तत्वमुच्यते । सर्वाभरणभूषितत्वं वा । इयं च ...वणस्य करकधारिणीति गम्यते ॥ ४६-४८ ॥

आतोद्यानि । "ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकं" इत्यमरः ॥ ४९-५१ ॥ किमिव गौरीमित्यत्राह---कनकवर्णाङ्गीमिति । इष्टां रावणस्येति शेषः ॥ ५२-५३ ॥ हर्षेणेत्यर्धं । हर्षेण युक्त: ननन्द उत्तरोत्तरमानन्दमवापेत्यर्थः ॥ ५४ ॥ तदेवोपपादयति---आस्फोटयामासेति । चिक्रीड ननर्तेति यावत् । स्वां प्रकृतिं स्वासाधारणं चापल्यं ॥ ५५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥


 तां बुद्धिं मन्दोदर्यां सीताबुद्धिं । अवस्थितो बभूव


...थापितानिवाशुभाङ्गानियस्यास्सा ॥ ३६ ॥ ती० जगौ हर्षान्मन्दगानंकृतवानित्यर्थः ॥ ५५ ॥ इतिदशमः सर्गः ॥ १० ॥

  1. ङ. झ. ञ. ट. मथतां.
  2. क. ख. ग. ङ.---ट. चस्वश्रिया.
  3. ख. ग. ङ.---झ. ट. कनकवर्णाभां.
  4. ग. .... तांदृष्ट्वास.
  5. ग. हर्षेणचसमायुक्तो.
  6. क. ननाद.
  7. इदमर्धं ङ.---ज. ञ. ट. पाठेषुदृश्यते.
  8. क. च. छ. ज. निदर्शयानः.