पाण्डरेणापविद्धेन क्षौमेण क्षतजेक्षणम् ॥ महार्हेण सुसंवीतं पीतेनोत्तमवाससा ॥ २७ ॥
माषराशिप्रतीकाशं निश्श्वसन्तं भुजङ्गवत् ॥ गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥ २८ ॥
चतुर्भिः काञ्चनैर्दीपै[१]र्दीप्यमानचतुर्दिशम् ॥ प्रकाशीकृतसर्वाङ्गं मेघं [२]विद्युद्गणैरिव ॥ २९ ॥
पादमूलगताश्चापि ददर्श सुमहात्मनः ॥ पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥ ३० ॥
शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः ॥ अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ ३१ ॥
नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः ॥ वराभरणधारिण्यो निषण्णा ददृशे हरिः ॥ ३२ ॥
वज्रवैडूर्यगर्भाणि श्रवणान्तेषु योषिताम् ॥ ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥ ३३ ॥
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः ॥ [३]विरराज विमानं तन्नभस्तारागणैरिव ॥ ३४ ॥
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः ॥ तेषु तेष्ववकाशेषु [४]प्रसुप्तास्तनुमध्यमाः ॥ ३५ ॥
अङ्गहारै[५]स्तथैवान्या कोमलैर्नृत्तशालिनी ॥ विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥ ३६ ॥
काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते ॥ महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ ३७ ॥
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा ॥ प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ ३८ ॥
पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी ॥ चिरस्य रमणं लब्ध्वा परिष्वज्येव [६]भामिनी ॥ ३९ ॥
[७]काचिद्वंशं परिष्वज्य सुप्ता कमललोचना ॥ [८]रहः प्रियतमं [९]गृह्य [१०]सकामेव च कामिनी ॥ ४० ॥
विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी ॥ निद्रावशमनुप्राप्ता सहकान्तेव [११]भामिनी ॥ ४१ ॥
अन्या [१२]कनकसंकाशैर्मुदुपीनैर्मनोरमैः ॥ मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ॥ ४२ ॥
भुजपार्श्वान्तरस्थेन कक्षगेन [१३]कृशोदरी ॥ पणवेन [१४]सहानिन्द्या सुप्ता मदकृतश्रमा ॥ ४३ ॥
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा ॥ प्रसुप्ता तरुणं वत्समु[१५]पगूह्येव भामिनी ॥ ४४ ॥
अपविद्धेन पर्यस्तेन । क्षौमेण उत्तरीयरूपेण ॥ २७-२८ ॥ विद्युद्गणैरिव विद्युत्समूहैरिव । रावणं तस्य पत्नीश्च ददशेत्यन्वयः ॥ २९ ॥ रक्षःपतेर्गृह इति परशेषः ॥ ३०-३१ ॥ राक्षसेन्द्रस्य भुजं अङ्कं गच्छन्तीति राक्षसेन्द्रभुजाङ्कगाः । उत्सङ्गोपवेशनालिङ्गनाभ्यां लालिता इत्यर्थः । वराभरणधारिण्यइति द्वितीयार्थे प्रथमा । निषण्णाः शयाना: । ददृश इत्यात्मनेपदमार्षं ॥ ३२ ॥ श्रवणान्तेष्वङ्गददर्शनं बाहूनुपधाय शयनात् ॥ ३३-३५ ॥ अङ्गहारः नृत्तविशेषादङ्गविक्षेपविशेषः । तथोक्तं भरतशास्त्रे "अङ्गानां योग्यदेशेषु हरणेन यथोचितम् । अङ्गनिर्वर्तनीयत्वादङ्गहारस्तथोच्यते" इत्यादि । कोमलैः सुकुमारैः । |
नृत्तशालिनी सुषुस्यवस्थायामपि वासनाबलेन नृत्तसन्निवेशविशिष्टा स्थितेत्युच्यते ॥ ३६ ॥ महानदीप्रकीर्णा महानदीप्रसृता । नलिनी समूलना... पद्मजालकं । पोतं यानपात्रं । वीणां परिष्वज्य ... काचित् नद्यां प्लवमाना यदृच्छया पोतसं... नलिनीव प्रकाशत इत्यर्थः ॥ ३७ ॥ मड्डुकेन ... विशेषेण ॥ ३८-३९ ॥ वंशं वेणुं ॥ ४० ॥ ... ञ्ची सप्ततन्त्री । षट्तन्त्री वीणा ॥ ४१-४२ ॥ ... वेन मर्दलेन ॥ ४३ ॥ यथा पूर्वा तथैवासक्त... ण्डिमान्या तं डिण्डिमं परिगृह्य परिष्वज्य । प्रसु... कथमिव । तरुणं वत्समुपगूह्येव । डिण्डिम: पण... दः । यद्वा अन्या भामिनी डिण्डिमं परिगृह्यावल... |
ति० विमानं मञ्चकविशेषः । पुष्पकमित्यन्ये । विराजत व्यराजत ॥ ३४ ॥ ति० मदव्यायामेन रतिजेन ॥ ३५ ॥ ती० ...विन्यस्तशुभसर्वाङ्गी विशेषेणन्यस्तंशुभंयेषुधात्रा तादृशानिसर्वाण्यङ्गानियस्यास्सा ॥ शि० विन्यस्तानि विधिनानिर्मितानि ...
- ↑ ङ. झ. ज. ट. र्दीप्यमानं.
- ↑ ग. घ. च. छ. ज. विद्युल्लतैरिव.
- ↑ ङ. झ. ञ. ट. विराजत.
- ↑ घ. निषण्णा...
- ↑ ग. घ. स्तथाचान्याः.
- ↑ क. ग.---ट. कामिनी.
- ↑ ख. ङ. झ. ञ. ट. काचिद्वीणां.
- ↑ ङ. झ. ञ. ट. वरंप्रियतम...
- ↑ क. लब्ध्वा.
- ↑ ग. ङ. ञ. ट. सकामेवहि.
- ↑ क. घ. कामिनी.
- ↑ घ. कनकवर्णाङ्गीमृदु. क. कनकवर्णाभैमृदु...
- ↑ च. शुभोदरी.
- ↑ ग. च. छ. ज. सहैवान्या.
- ↑ क. ख. मुपगृह्यैव.